Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 496
________________ तृतीयं परिशिष्टम् । ६५ चतुष्कः अष्टकः द्विकः शून्यान्यष्टौ २५४८२०००००००० । अस्य वर्गमूलानयने लब्ध एककः पञ्चकः नवकः षट्कः त्रिकः शून्यम् अष्टौ(ष्टकः) १५९६३०८ । शेषमुद्धरति सप्तकः षट्कः नवकः एककः त्रिकः षट्कः ७६९१३६ । छेदराशिः त्रिकः एककः नवकः द्विकः षट्कः एककः षट्कः ३१९२६१६ । वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां चतुरशीतिसहस्राणि षोडशाधिकानि चतस्रः कलाः ८४०१६ क० ४ ॥५९॥" - इति बृहत्क्षेत्र० 5 मलय० । [पृ०१८० पं०३] "पुढविदगअगणिमारुय, इक्किक्के सत्त जोणिलक्खाओ । वणपत्तेय अणंते, दस चउदस जोणिलक्खाओ ॥३५१॥ विगलिंदिएसु दो दो, चउरो चउरो अ नारयसुरेसु । तिरिएसु हुंति चउरो, चउदस लक्खाओ मणुएसु ॥३५२॥ व्या० पृथिव्युदकाग्निमरुतां संबन्धिन्येकैकस्मिन् समूहे सप्त योनिलक्षा भवन्ति, तद्यथा- सप्त पृथिवीनिकाये, सप्तोदकनिकाये, 10 सप्ताग्निनिकाये, सप्त वायुनिकाये । वनस्पतिनिकायो द्विविधः, तद्यथा- प्रत्येकोऽनन्तकायश्च । तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश । विकलेन्द्रियेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा- द्वे योनिलक्षे द्वीन्द्रियेषु, द्वे त्रीन्द्रियेषु, द्वे चतुरिन्द्रियेषु । तथा, चतम्रो योनिलक्षा नारकाणाम्, चतम्रो देवानाम्, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतम्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु । सर्वसङ्ख्यया चतुरशीतिर्योनिलक्षा भवन्ति । 15 उक्तं च- 'नभस्वतः सप्त जलस्य चाग्नेः, क्षितेस्तथा ताश्च निगोदयोद्धे । स्मृताश्चतस्रः किल नारकाणां तथा तिरश्चां त्रिदिवौकसां च ॥१॥ त्रिरीरिते द्वे विकलेन्द्रियाणां चतुर्दश स्युर्मनुजन्मनां च । वनस्पतीनां दश योनिलक्षा, अशीतिरेवं चतुरुत्तरा स्यात् ॥२॥' [ ] इति ॥३५१-३५२॥" - इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥ [पृ०१८१ पं०१] “उक्ता ज्योतिष्कविमानवक्तव्यता, सम्प्रति वैमानिकदेवविमानवक्तव्यतामाह- 20 बत्तीसट्ठावीसा बारस अट्ठ य चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥११७॥ व्या० ब्रह्मलोकात् ब्रह्मलोकचरमपर्यन्तादारतोऽर्वाक् । किमुक्तं भवति ? ब्रह्मलोकमभिव्याप्य एषा विमानसङ्ख्या भवति, तद्यथा-सौधर्मे कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ३२००००० । ईशानदेवलोकेऽष्टाविंशतिः २८००००० । सनत्कुमारकल्पे द्वादश १२००००० । माहेन्द्रकल्पेऽष्टौ ८००००० । ब्रह्मलोके कल्पे चत्वारि ४००००० ॥११७॥ तथा– पन्नास चत्त 25 छच्चेव सहस्सा लंतसुक्कसहस्सारे । सय चउरो आणयपाणएसु तिनारणच्चुयए ॥११८॥ व्या० अत्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना । लान्तके कल्पे पञ्चाशद्विमानानां सहस्राणि ५००००। महाशुक्रे कल्पे चत्वारिंशत्सहस्राणि ४०००० । सहस्रारे कल्पे षट् सहस्राणि ६००० । तथा आनतप्राणतयोर्द्वयोः कल्पयोः समुदितयोश्चत्वारि विमानशतानि ४०० । आरणाच्युतयोर्द्वयोः कल्पयोः समुदितयोस्त्रीणि विमानशतानि ३०० ॥११८।। तथा- इक्कारसुत्तरं हिटिमेसु सत्तुत्तरं च मज्झिमए। 30 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566