________________
तृतीयं परिशिष्टम् ।
६५
चतुष्कः अष्टकः द्विकः शून्यान्यष्टौ २५४८२०००००००० । अस्य वर्गमूलानयने लब्ध एककः पञ्चकः नवकः षट्कः त्रिकः शून्यम् अष्टौ(ष्टकः) १५९६३०८ । शेषमुद्धरति सप्तकः षट्कः नवकः एककः त्रिकः षट्कः ७६९१३६ । छेदराशिः त्रिकः एककः नवकः द्विकः षट्कः एककः षट्कः ३१९२६१६ । वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां चतुरशीतिसहस्राणि षोडशाधिकानि चतस्रः कलाः ८४०१६ क० ४ ॥५९॥" - इति बृहत्क्षेत्र० 5 मलय० ।
[पृ०१८० पं०३] "पुढविदगअगणिमारुय, इक्किक्के सत्त जोणिलक्खाओ । वणपत्तेय अणंते, दस चउदस जोणिलक्खाओ ॥३५१॥ विगलिंदिएसु दो दो, चउरो चउरो अ नारयसुरेसु । तिरिएसु हुंति चउरो, चउदस लक्खाओ मणुएसु ॥३५२॥ व्या० पृथिव्युदकाग्निमरुतां संबन्धिन्येकैकस्मिन् समूहे सप्त योनिलक्षा भवन्ति, तद्यथा- सप्त पृथिवीनिकाये, सप्तोदकनिकाये, 10 सप्ताग्निनिकाये, सप्त वायुनिकाये । वनस्पतिनिकायो द्विविधः, तद्यथा- प्रत्येकोऽनन्तकायश्च । तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश । विकलेन्द्रियेषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा- द्वे योनिलक्षे द्वीन्द्रियेषु, द्वे त्रीन्द्रियेषु, द्वे चतुरिन्द्रियेषु । तथा, चतम्रो योनिलक्षा नारकाणाम्, चतम्रो देवानाम्, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतम्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु । सर्वसङ्ख्यया चतुरशीतिर्योनिलक्षा भवन्ति । 15 उक्तं च- 'नभस्वतः सप्त जलस्य चाग्नेः, क्षितेस्तथा ताश्च निगोदयोद्धे । स्मृताश्चतस्रः किल नारकाणां तथा तिरश्चां त्रिदिवौकसां च ॥१॥ त्रिरीरिते द्वे विकलेन्द्रियाणां चतुर्दश स्युर्मनुजन्मनां च । वनस्पतीनां दश योनिलक्षा, अशीतिरेवं चतुरुत्तरा स्यात् ॥२॥' [ ] इति ॥३५१-३५२॥" - इति बृहत्संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥
[पृ०१८१ पं०१] “उक्ता ज्योतिष्कविमानवक्तव्यता, सम्प्रति वैमानिकदेवविमानवक्तव्यतामाह- 20 बत्तीसट्ठावीसा बारस अट्ठ य चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥११७॥ व्या० ब्रह्मलोकात् ब्रह्मलोकचरमपर्यन्तादारतोऽर्वाक् । किमुक्तं भवति ? ब्रह्मलोकमभिव्याप्य एषा विमानसङ्ख्या भवति, तद्यथा-सौधर्मे कल्पे द्वात्रिंशद्विमानानां शतसहस्राणि ३२००००० । ईशानदेवलोकेऽष्टाविंशतिः २८००००० । सनत्कुमारकल्पे द्वादश १२००००० । माहेन्द्रकल्पेऽष्टौ ८००००० । ब्रह्मलोके कल्पे चत्वारि ४००००० ॥११७॥ तथा– पन्नास चत्त 25 छच्चेव सहस्सा लंतसुक्कसहस्सारे । सय चउरो आणयपाणएसु तिनारणच्चुयए ॥११८॥ व्या० अत्रापि पूर्वार्धे कल्पक्रमेण सङ्ख्यापदयोजना । लान्तके कल्पे पञ्चाशद्विमानानां सहस्राणि ५००००। महाशुक्रे कल्पे चत्वारिंशत्सहस्राणि ४०००० । सहस्रारे कल्पे षट् सहस्राणि ६००० । तथा आनतप्राणतयोर्द्वयोः कल्पयोः समुदितयोश्चत्वारि विमानशतानि ४०० । आरणाच्युतयोर्द्वयोः कल्पयोः समुदितयोस्त्रीणि विमानशतानि ३०० ॥११८।। तथा- इक्कारसुत्तरं हिटिमेसु सत्तुत्तरं च मज्झिमए। 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org