SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । Cx [पृ०१६७ पं०५] "अधुना हरिवर्षस्य जीवामाह- एगुत्तरा नव सया, तेवत्तरिमेव जोयणसहस्सा। जीवा सत्तरस कला, अद्धकला चेव हरिवासे ॥५८॥ व्या० हरिवर्षे हरिवर्षाभिधस्य क्षेत्रस्य जीवा त्रिसप्ततिसहस्राणि नव शतानि एकोत्तराणि योजनानां कलाः सप्तदश अर्धकला च । तथाहि- हरिवर्षस्यावगाहस्त्रीणि लक्षाणि दश सहस्राणि ३१००००, अनेन 5 जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाणो हीनः क्रियते, जाताः शेषाः पञ्चदश लक्षा नवतिसहस्राणि १५९००००, एतदुक्तप्रमाणेनावगाहेन ३१०००० गुण्यते, जातः चतुष्कः नवकः द्विकः नवकः अष्टौ शून्यानि ४९२९०००००००० । एष राशिभूयश्चतुर्भिर्गुण्यते, जात एककः नवकः सप्तकः एककः षट्कः शून्यानि चाष्टौ १९७१६०००००००० । एष हरिवर्षस्य जीवावर्गः, अस्य वर्गमूलानयने लब्ध एककः चतुष्कः शून्यं चतुष्कः एककः त्रिकः षट्कः १४०४१३६ । शेष 10 तिष्ठति द्विकः शून्यं नवकः त्रिकः पञ्चकः शून्यं चतुष्कः २०९३५०४ । छेदराशिः द्विकः अष्टकः शून्यम् अष्टकः द्विकः सप्तकः द्विकः २८०८२७२ । ततो योजनकरणार्थं वर्गमूललब्धमेकोनविंशत्या भज्यते, लब्धानि योजनानां त्रिसप्ततिसहस्राणि नव शतानि एकोत्तराणि कलाः सप्तदश ७३९०१ क० १७ । उद्धरितस्तु कलाराशिरर्धकलानयनाय द्विकेन गुण्यते, गुणयित्वा च यथोक्तप्रमाणेन छेदराशिना भज्यते लब्धमेकं कलार्धम्, शेषस्त्वर्धकलाराशिरेवंरूपस्तिष्ठति एककः त्रिकः सप्तकः 15 अष्टकः सप्तकः त्रिकः षट्कः १३७८७३६ ॥५८॥” इति बृहत्क्षेत्र० मलय० ।। [पृ०१७९ पं०११] “साम्प्रतमस्यैव हरिवर्षस्य बाहां धनुःपृष्ठं चाह- बाहा तेर सहस्सा, एगट्ठा तिसय छक्कलऽद्धकला । धणुपट्ट कलं चउक्त्रं, चुलसीइ सहस्स सोलहिया ॥५९॥ व्या० हरिवर्षस्य पूर्वस्यामपरस्यां च दिशि प्रत्येकं बाहापरिमाणं त्रयोदश सहस्राणि त्रीणि शतानि एकषष्टानि एकषष्ट्यधिकानि योजनानां षट् कलाः एकं च कलार्धम् । तथाहि- महतो धनुःपृष्ठात् 20 हरिवर्षसत्कात् चतुरशीतिर्योजनानां सहस्राणि षोडशाधिकानि कलाश्चतस्रः ८४०१६ क० ४ इत्येवंपरिमाणात् डहरकं धनुःपृष्ठं महाहिमवतः संबन्धि सप्तपञ्चाशत्सहस्राणि द्वे शते त्रिनवत्यधिके कला दश ५७२९३ क० १० इत्येवंपरिमाणं शोध्यते, शोधिते च सति जातं शेषमिदम्- षड्विंशतिः सहस्राणि सप्त शतानि द्वाविंशत्यधिकानि योजनानां त्रयोदश कलाः २६७२२ क० १३, एतेषामर्धे लब्धानि योजनानां त्रयोदश सहस्राणि त्रीणि शतानि एकषष्ट्यधिकानि षट् च कलाः सार्धाः १३३६१ 25 कलाः ६ अर्धम् । तथा चतुरशीतिर्योजनानां सहस्राणि षोडशाधिकानि चतस्रः कलाः ८४०१६ क० ४ इत्येतावत्परिमाणं हरिवर्षस्य धनुःपृष्ठम् । तथाहि- हरिवर्षस्येषुपरिमाणं तिम्रो लक्षा दश सहस्राणि ३१००००, अस्य वर्गो विधीयते, जातो नवकः षट्कः एककः शून्यान्यष्टौ ९६१०००००००० भूय एष राशिः षड्भिर्गुण्यते, आगतः पञ्चकः सप्तकः षट्कः षट्कः अष्टौ शून्यानि ५७६६००००००००। एतत् हरिवर्षक्षेत्रस्य सत्के एककः नवकः सप्तकः एककः षट्कः शून्यान्यष्टौ 30 १९७१६०००००००० इत्येवंरूपे जीवावर्गे प्रक्षिप्यते, ततो जातो राशिरेवंप्रमाणः- द्विकः पञ्चकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy