________________
तृतीयं परिशिष्टम् ।
३
[पृ०१५७ पं०२२] “अधुनाऽस्यैव क्षुल्लहिमवतो धनुःपृष्ठं बाहां चाह- धणुपट्ट कलचउक्कं, पणुवीससहस्स दुसय तीसऽहिया । बाहा सोलद्धकला, तेवन्न सया य पन्नहिया ॥५३॥ व्या० पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके योजनानां कलाश्चतस्रः २५२३० क० ४ इत्येतावत्परिमाणं क्षुल्लहिमवतो धनुःपृष्ठम् । तथाहि- क्षुल्लहिमवतः इषुपरिमाणं त्रिंशत्सहस्राणि कलानाम् ३००००, अस्य वर्गो विधीयते, जातो नवकः अष्टौ शून्यानि ९०००००००० । एष राशिभूयः षड्भिर्गुण्यते, 5 जातः पञ्चकः चतुष्कः अष्टौ शून्यानि ५४०००००००० । एतत् क्षुल्लहिमवतो जीवावर्गे प्रागुक्तस्वरूपे द्विकः द्विकः चतुष्कः चतुष्कः अष्टौ शून्यानि २२४४०००००००० इत्येवंपरिमाणे प्रक्षिप्यते । ततो जातो राशिरयम्- द्विकः द्विकः नवकः अष्टकः अष्टौ शून्यानि २२९८०००००००० । अस्य वर्गमूलानयने लब्धः चतुष्कः सप्तकः नवकः त्रिकः सप्तकः चतुष्कः ४७९३७४ । शेषं तूद्धरितं पञ्चकः षट्कः अष्टकः एककः द्विकः चतुष्कः ५६८१२४ । छेदराशिः नवकः पञ्चकः अष्टकः 10 सप्तकः चतुष्कः अष्टकः ९५८७४८ । वर्गमूललब्धस्तु कलाराशिर्योजनकरणार्थमेकोनविंशत्या भज्यते, लब्धानि योजनानां पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके चतस्रः कलाः २५२३० क० ४ । तथा त्रिपञ्चाशच्छतानि पञ्चाशदधिकानि योजनानां षोडशार्धकला: सार्धपञ्चदशकलाः ५३५० क० १५३ इत्येतावत्प्रमाणा पूर्वस्यामपरस्यां च दिशि प्रत्येकं बाहा । तथाहि- महतो धनुःपृष्ठात् क्षुल्लहिमवतः संबन्धिनः पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके योजनानां कलाश्चतस्रः २५२३० 15 क० ४ इत्येवंपरिमाणात् लघु धनुःपृष्ठमुत्तरभरतार्धसंबन्धि चतुर्दश सहस्राणि पञ्च शतानि अष्टाविंशत्यधिकानि योजनानां कलाश्चैकादश १४५२८ क० ११ इत्येवंप्रमाणं शोध्यते, शोधिते च सति जातं शेषमिदं दश सहस्राणि सप्त शतानि एककोत्तराणि योजनानां कलाश्च द्वादश १०७०१ क० १२ । एतेषामधे लब्धानि त्रिपञ्चाशच्छतानि पञ्चाशदधिकानि योजनानां कलाः पञ्चदश एकं कलार्धम् ५३५० क० १५ अर्धम् १ ॥५३॥" -इति बृहत्क्षेत्र० मलय० ॥
20 [पृ०१६२ पं०७] “मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं । एत्तो विसेसहीणं जावुक्कोसं ति सव्वेसिं ॥८३॥ व्या०- तदेवं कृता स्थितिस्थानप्ररूपणा । सम्प्रति निषेकप्ररूपणावसरः। तत्र च द्वे अनुयोगद्वारे-अनन्तरोपनिधा, परम्परोपनिधा च । तत्रान्तरोपनिधाप्ररूपणार्थमाह- मोत्तूण त्ति सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमात्मीयमबाधाकालं मुक्त्वा परित्यज्य ऊर्ध्वं दलिकनिक्षेपं करोति । तत्र प्रथमायां स्थितौ समयलक्षणायां प्रभूततरं 25 द्रव्यं कर्मदलिकं निषिञ्चति । एत्तो विसेसहीणं ति इतः प्रथमस्थितेरूज़ द्वितीयादिषु समयसमयप्रमाणासु विशेषहीनं विशेषहीनं कर्मदलिकं निषिञ्चति । तथाहि- प्रथमस्थितेः सकाशात् द्वितीयस्थितौ विशेषहीनम्, ततोऽपितृतीयस्थितौ विशेषहीनम्, ततोऽपि चतुर्थस्थितौ विशेषहीनम्, एवं विशेषहीनं विशेषहीनं तावद्वाच्यं यावत्तत्तत्समय बध्यमानकर्मणामुत्कृष्टा स्थितिश्चरमसमय इत्यर्थः ॥८३॥” इति मलयगिरिसूरिविरचितायां कर्मप्रकृतिवृत्तौ ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org