Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
तृतीयं परिशिष्टम् । ७००००। अस्य वर्गे जातः चतुष्कः नवकः शून्यान्यष्टौ ४९०००००००० । एष राशिभूयः षड्भिर्गुण्यते, जातः द्विकः नवकः चतुष्कः अष्टौ च शून्यानि २९४०००००००० । एतत् प्रागुक्ते हैमवतवर्षजीवावर्गे पञ्चकः एककः द्विकः चतुष्कः अष्टौ शून्यानि ५१२४०००००००० इत्येवंपरिमाणे प्रक्षिप्यते, जातः पञ्चकः चतुष्क एककः अष्टकः अष्टौ शून्यानि ५४१८०००००००० । अस्य वर्गमूलानयने लब्धः सप्तकः त्रिकः षट्कः शून्यं सप्तकः शून्यम् ७३६०७० । शेषमुद्धरितं नवकः 5 पञ्चकः पञ्चकः एककः शून्यं शून्यम् ९५५१०० । छेदराशिरेककः चतुष्कः सप्तकः द्विकः एककः चतुष्कः शून्यम् १४७२१४०। वर्गमूललब्धः कलाराशिरेकोनविंशत्या योजनकरणाय भज्यते, लब्धानि योजनानामष्टात्रिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि योजनानां कलाः दश ३८७४० क० १० ॥ तथा सप्तषष्टिशतानि पञ्चपञ्चाशानि पञ्चपञ्चाशदधिकानि योजनानां कलास्तिस्रः ६७५५ क० ३ हैमवतवर्षस्य बाहा । तथाहि- महतो धनुःपृष्ठात् हैमवतवर्षसत्कात् अष्टात्रिंशत्सहस्राणि 10 सप्त शतानि चत्वारिंशदधिकानि योजनानां कला दश ३८७४० क० १० इत्येवंपरिमाणात् डहरकं धनुःपृष्ठं क्षुल्लहिमवतः संबन्धि पञ्चविंशतिसहस्राणि द्वे शते त्रिंशदधिके कलाश्चतस्रः २५२३० क० ४ इत्येवंप्रमाणं शोध्यते, शोधिते च सति तस्मिन् जातं शेषमिदम्- एककः त्रिकः पञ्चकः एककः शून्यं १३५१० कलाश्च षट् ६ । अस्यार्धे लब्धानि योजनानां सप्तषष्टिशतानि पञ्चपञ्चाशदधिकानि तिम्रः कलाः ६७५५ क० ३ ॥५५॥
15 [पं०१८] “सम्प्रति मेरोः काण्डादिवक्तव्यतामाह- मेरुस्स तिन्नि कंडा, पुढवोवलवइरसक्करा पढमे । रयए य जायरूवे, अंके फलिहे य बीयम्मि ॥३१२॥ एगागारं तइयं, तं पुण जंबूणयामयं होइ । जोयणसहस्स पढम, बाहल्लेणं च बीयं तु ॥३१३॥ तेवढि सहस्साइं, तइयं छत्तीस जोणसहस्सा । व्या० मेरोः पर्वतस्य त्रीणि काण्डानि, काण्डं नाम विशिष्टपरिमाणानुगतो विच्छेदः, तत्र प्रथमे काण्डे पृथिव्युपलवज्रशर्कराः, किमुक्तं भवति ? प्रथमं काण्डं क्वचित्पृथिवीबहुलम्, 20 क्वचिदुपलबहुलम्, क्वचिद्वज्रबहुलम्, क्वचिच्छर्कराबहुलम् । तथा द्वितीयकाण्डे रजतम्, जातरूपम्, अङ्करत्नानि, स्फटिकरत्नानि च, अत्रापीयं भावना- द्वितीयं काण्डं क्वचिद्रजतबहुलम्, क्वचिज्जातरूपबहुलम्, क्वचिदङ्करत्नबहुलम्, क्वचित्स्फटिकरत्नबहुलम् । तृतीयं पुनरेकाकारम्, तच्च सर्वात्मना जाम्बूनदमयम्। उक्तं च- "मंदरस्स णं भंते पव्वयस्स कइ कंडा पन्नत्ता ? गोयमा ! तिन्नि कंडा पन्नत्ता, तंजहा- हेहिल्ले कंडे मज्झिल्ले कंडे उवरिमे कंडे । मंदरस्स णं भंते पव्वयस्स 25 हिडिल्ले कंडे कइविहे पन्नत्ते ? गोयमा ! चउव्विहे पन्नत्ते, तंजहा- पुढवी उवले वइरे सक्करा । मंदरस्स णं भंते ! पव्वयस्स मज्झिल्ले कंडे कइविहे पन्नत्ते ? गोयमा ! चउविहे पन्नत्ते, तंजहाअंके फलिहे रयए जायरूवे । मंदरस्स णं भंते ! पव्वयस्स उवरिमे कंडे कइविहे पन्नत्ते ? गोयमा ! एगागारे पन्नत्ते, तंजहा- सव्वजंबूणयामए' [ ] । तत्र प्रथमं काण्डं बाहल्येन योजनसहस्रं योजनसहस्रपरिमाणम्, तच्च भूमाववगाढम्, द्वितीयं तु त्रिषष्टिसहस्राणि, तच्च समतलभूभागादारभ्य 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566