Book Title: Agam 04 Ang 04 Samvayanga Sutram Tika
Author(s): Abhaydevsuri, Jambuvijay
Publisher: Mahavir Jain Vidyalay
View full book text
________________
कतिपयानि विशिष्टानि टिप्पनानि ।
प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह- एवं वड्डइ इत्यादि, एवं राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो वर्धते वर्धमानः प्रतिभासते चन्द्रः, एवं राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः
प्रतिहानिः प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावेन कारणेन एकः पक्षः कालः 5 कृष्णो भवति, यत्र चन्द्रस्य परिहाणिः प्रतिभासते, एकस्तु ज्योत्स्न: शुक्लो यत्र चन्द्रविषयो
वृद्धिप्रतिभासः।” इति सूर्यप्रज्ञप्तेः एकोनविंशतितमे प्राभृते १०० तमसूत्रस्य मलयगिरिसूरिविरचितायां वृत्तौ ।
(पृ०१५२ पं०१८] "इह द्विविधो राहुस्तद्यथा-पर्वराहुर्नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात् समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं वाऽन्तरितं करोति, अन्तरिते 10 च कृते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं
तथाजगत्स्वाभाव्याच्चन्द्रेण सह 'नित्यं' सर्वकालमविरहितं तथा 'चउरंगुलेन' चतुरङ्गुलैप्राप्तं सत् 'चन्द्रस्य' चन्द्रविमानस्याधस्ताच्चरति, तच्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह– इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनौ
सदाऽनावार्यस्वभावत्वाद् अपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते 15 द्वाषष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतच्च व्याख्यानमेतस्यैव चूर्णिमुपजीव्य कृतं न
स्वमनीषिकया, तथा च तद्ग्रन्थः- “चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागोऽपहियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते शेषौ द्वौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यत" इति, एवं च सति यत्समवायाङ्गसूत्रम्- “सुक्कपक्खस्स दिवसे दिवसे बावडिं
बावहिँ भागे परिवड्डइ" इति, तदप्येवमेव व्याख्येयम्, संप्रदायवशाद्धि सूत्रं व्याख्येयम्, न 20 स्वमनीषिकया, अन्यथा महदाशातनाप्रसक्तेः, संप्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे
यद् यस्मात् कारणाच्चन्द्रो द्वाषष्टिद्वाषष्टिभागान् द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत् परिवर्द्धते, कालेन कृष्णपक्षेण पुनर्दिवसे २ तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् ‘प्रक्षपयति' परिहापयति, एतदेव व्याचष्टे- कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन तं ‘चन्द्र'
चन्द्रविमानं पञ्चदशमेव भागं वृणोति' आच्छादयति, शुक्लपक्षे पुनस्तमेव प्रतिदिवसं 25 पञ्चदशभागमात्मीयेन पञ्चदशेन भागेन ‘व्यतिक्रामति' मुञ्चति, किमुक्तं भवति ? कृष्णपक्षे प्रतिपद
आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितन-भागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलस्य वृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव, तथा चाह- एवं
राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो 'वर्द्धते' वर्द्धमानः प्रतिभासते चन्द्रः" इति 30 जीवाभिगमसूत्रस्य तृतीयायां प्रतिपत्तौ द्वितीये उद्देशके मलयगिरिविरचितायां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566