________________
अथ चतुर्थ भाषाजातमध्ययनम् ।
निक्षेपनिक वाच्यं न जायमभिसम्बर
उक्तं तृतीयमध्ययनं, साम्प्रतं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने पिण्डविशुद्ध्यर्थ गमनविधिरुक्तः, तत्र च गतेन पथि वा यादृग्भूतं वाच्यं न वाच्यं वा, अनेन च सम्बन्धेनायातस्य भाषाजाताध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र निक्षेपनियुक्त्यनुगमे भाषाजातशब्दयोनिक्षेपार्थ नियुक्तिकृदाह
जह वक्कं तह भासा जाए छक्कं च होइ नायव्वं । उप्पत्तीए १ तह पज्जवं २ तरे ३ जायगहणे ४ य ॥ ३१३ ॥ PL यथा वाक्यशुद्ध्यध्ययने वाक्यस्य निक्षेपः कृतस्तथा भाषाया अपि कर्त्तव्यः, जातशब्दस्य तु षट्रनिक्षेपोऽयं ज्ञातव्यो
नाम १ स्थापना २ द्रव्य ३ क्षेत्र ४ काल ५ भाव ६ रूपः, तत्र नामस्थापने क्षुण्णे, द्रव्यजातं तु आगमतो नोआगमतः, व्यतिरिक्तं नियुक्तिकारो गाथापश्चार्द्धन दर्शयति-तच्चतुर्विधम् , उत्पत्तिजातं १ पर्यवजातम् २ अन्तरजातं ३ ग्रहणजातं ४, तत्रोत्पत्तिजातं नाम यानि द्रव्याणि भाषावर्गणान्तःपातीनि काययोगगृहीतानि वाग्योगेन निसृष्टानि भाषात्वेनोत्पद्यन्ते तदुत्पत्तिजातं, यद्रव्यं भाषात्वेनोत्पन्नमित्यर्थः १, पर्यवजातं तैरेव वाग्निसृष्टभाषाद्रव्यैर्यानि विश्रेणिस्थानि भाषावर्गणान्तर्गतानि निसृष्टद्रव्यपराघातेन भाषापर्यायत्वेनोसद्यन्ते तानि द्रव्याणि पर्यवजातमित्युच्यन्ते २, यानि त्वन्तराले समश्रेण्यामेव निसृष्टद्रव्यमिश्रितानि भाषापरिणाम भजन्ते तान्यन्तरजातमित्युच्यन्ते ३, यानि पुनद्र
आ. सू. ६५