Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 222
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ३ भावनाध्य. ॥४१८॥ रोत्यादौ तावत्सघृणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशङ्को विगतघृणमन्यत्प्रकुरुते, ततः पापाभ्यासात्सततमशुभेषु प्ररमते ॥१॥"॥ प्रशस्तभावनामाहदंसणनाणचरित्ते तववेरग्गे य होइ उ पसत्था । जा य जहा ता य तहा लक्खण वुच्छं सलक्खणओ ॥३२९॥ | दर्शनशानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तां प्रत्येक लक्षणतो वक्ष्य इति ॥दर्शनभावनार्थमाहतित्थगराण भगवओ पवयणपावयणिअइसइड्डीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा ॥ ३३०॥ । तीर्थकृतां भगवतां प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानानां, तथाऽतिशयिनामृद्धिमतां-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्वविदां तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किञ्च जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदीसरभोमनगरेसुं ॥ ३३१ ॥ अहावयमुजिते गयग्गपयए य धम्मचक्के य । पासरहावत्तनगं चमरुप्पायं च वंदामि ॥ ३३२ ॥ तीर्थकृतां जन्मभूमिषु तथा निष्क्रमणचरणज्ञानोत्पत्तिनिर्वाणभूमिषु तथा देवलोकभवनेषु मन्दरेषु तथा नन्दीश्वरद्वीपादौ भौमेषु च-पातालभवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति द्वितीयगाथायामन्ते क्रियेति, एवमष्टापदे, तथा श्रीमदुजयन्तगिरौ 'गजाग्रपदे' दशार्णकूटवर्तिनि तथा तक्षशिलायां धर्मचक्रे तथा अहिच्छत्रायां ॥४१८॥

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250