Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 225
________________ AAAAA साहुमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिग्गहविरई साहु तवो बारसंगो य ॥ ३३८ ॥ वेरग्गमप्पमाओ एगत्ता (ग्गे) भावणा य परिसंगं । इय चरणमणुगयाओ भणिया इत्तो तवो वुच्छं ॥३३९॥ साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमव्रतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोभनं नान्यत्रेति | द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्गं तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मवन्धोपादानरूपाणामनासेवनरूपा, तथैकाग्रभावना-"एक्को मे सासओ अप्पा, णाणदसणसंजुओ । सेसा मे बहिरा भावा, सब्वे संजोगलक्खणा ॥१॥” इत्यादिका भावनाः (इति प्रकृष्टभूषित्वाङ्गं) 'चरणमुपगताः' चरणाश्रिताः, इत ऊर्ध्वं तपोभावनां 'वक्ष्ये' अभिधास्य इति ॥ किह मे हविजऽवंझो दिवसो? किं वा पह तवं काउं? को इह दवे जोगो खित्ते काले समयभावे? ॥३४०॥ | 'कथं' केन निर्विकृत्यादिना तपसा मम दिवसोऽवन्ध्यो भवेत् ? कतरद्वा तपोऽहं विधातुं 'प्रभुः' शक्तः?, तच्च कतरत्तपः कस्मिन् द्रव्यादौ मम निर्वहति ? इति भावनीयं, तत्र द्रव्ये उत्सर्गतो वल्लचणकादिके क्षेत्रे स्निग्धरूक्षादौ काले शीतोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कर्तुमलम् , इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितस्त्यागतपसी" (तत्त्वार्थे अ०६ सू० २३ दर्शन०) इति वचनादिति ॥ किञ्च १एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥१॥

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250