Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 224
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ४१९ ॥ तत्र ज्ञानस्य भावना ज्ञानभावना - एवंभूतं मौनीन्द्रं ज्ञानं प्रवचनं यथाऽवस्थिताशेषपदार्थाविर्भावकमित्येवंरूपेति, अनया च प्रधानमोक्षाङ्गं सम्यक्त्वमाधिगमिकमाविर्भवति, यतस्तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्त्वं च जीवाजीवादयो नव पदार्थाः, ते च तत्त्वज्ञानार्थिना सम्यग ज्ञातव्याः, तत्परिज्ञानमिहैव-आर्हते प्रवचने दृष्टम् उपलब्धमिति, तथेव - आर्हते प्रवचने कार्य - परमार्थरूपं मोक्षाख्यं तथा करणं- क्रियासिद्धौ प्रकृष्टोपकारकं सम्यग्दर्शनज्ञानचारित्राणि, कारकः - साधुः सम्यग्दर्शनाद्यनुष्ठाता, क्रियासिद्धिश्च इहैव मोक्षावाप्तिलक्षणा, तामेव दर्शयति-बन्धः - कर्मबन्धनं तस्मान्मोक्षः - कर्मविचटनलक्षणः, असावपीहैव, नान्यत्र शाक्यादिकप्रवचने भवति, इत्येवं ज्ञानं भावयतो ज्ञानभावना भवतीति ॥ तथा 'बद्धः' अष्टप्रकारकर्मपुद्गलैः प्रतिप्रदेशमवष्टब्धो जीवः, तथा 'बन्धहेतवः' मिथ्यात्वाविरतिप्रमादकषाययोगाः तथा बन्धनम् - अष्टप्रकार कर्म वर्गणारूपं तत्फलं चतुर्गतिसंसार पर्यटन सातासाताद्यनुभवनरूपमिति, एतत्सर्वमत्रैव सुकथितम्, अन्यद्वा यत्किञ्चित्सुभाषितं तदिहैव प्रवचनेऽभिहितमिति ज्ञानभावना, तथा विचित्र संसारप्रपञ्चोऽत्रैव जिनेन्द्रैः कथित इति ॥ तथा ज्ञानं मम विशिष्टतरं भविष्यतीति ज्ञानभावना विधेया, ज्ञानमभ्यसनीयमित्यर्थः, आदिग्रहणादेकाग्रचिततादयो गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा- "जं अन्नाणी कम्मं खवेइ" इत्यादि, तथैभिश्च कारणैर्ज्ञानमभ्यसनीयं तद्यथा - ज्ञानसङ्ग्रहार्थं निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञानभावनया नित्यं गुरुकुलवासो भवति, तथा चोक्तम् - "णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥”, इत्यादिका ज्ञानविषया भावना भवतीति ॥ चारित्रभावनामधिकृत्याह १ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥ श्रुतस्कं० २ चूलिका ३ भावनाध्य. ॥ ४१९ ॥

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250