Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
AURANGARHWARREARSA
तमित्थंभूतं भिक्षं 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्सादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सयामगतं कुञ्जरमिव ॥ २॥ अपिच___ तहप्पगारेहिं जणेहिं हीलिए, ससहफासा फरुसा उईरिया । तितिक्खए नणि अदुट्ठचेयसा, गिरिठव वाएण न संपवेयए ॥ ३ ॥ _ 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीत्राः सशब्दाः-साक्रोशाः स्पा:-शीतोष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता. इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकमेण एवार्य विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह___उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अलूसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥ ४ ॥ 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां सस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वसहः' परीषहोपसर्गसहिष्णुः 'महामुनिः' सम्यग्जग-15 त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः॥ ४॥ किञ्चविऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वडुइ ॥५॥ 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रहः, किं तत्?–'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?–'अणुत्तरं' प्रधानमित्यर्थः,

Page Navigation
1 ... 243 244 245 246 247 248 249 250