Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 246
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका ४ विमुक्त्य. ॥४३०॥ KARNASAMSUNGAGG तस्य चैवंभूतस्य मुनेविंगततृष्णस्य ध्यायतो धर्मध्यानं 'समाहितस्य' उपयुक्तस्याग्निशिखावत्तेजसा चलतस्तपः प्रज्ञा यशश्च वर्द्धत इति ॥५॥ तथा दिसोदिसंऽणंतजिणेण ताइणा, महव्वया खेमपया पवेइया । महागुरू निस्सयरा उईरिया, तमेव तेउत्तिदिसं पगासगा ॥ ६॥ ___ 'दिशोदिश'मिति सर्वास्वप्येकेन्द्रियादिषु भावदिक्षु 'क्षेमपदानि' रक्षणस्थानानि 'प्रवेदितानि' प्ररूपितानि, अनन्तश्चासौ ज्ञानात्मतया नित्यतया वा जिनश्च-रागद्वेषजयनादनन्तजिनस्तेन, किंभूतानि व्रतानि?-'महागुरूणि' कापुरुषैदुर्वहत्वात् 'निःस्वकराणि' स्वं-कर्मानादिसम्बन्धात्तदपनयनसमर्थानि निःस्वकराणि 'उदीरितानि' आविष्कृतानि तेजस इव तमोऽपनयनानिदिशं प्रकाशकानि, यथा तेजस्तमोऽपनीयोर्ध्वाधस्तिर्यक् प्रकाशते एवं तान्यपि कर्मतमोऽपनयनहेतुत्वात्रिदिशं प्रकाशकानीति ॥ ६॥ मूलगुणानन्तरमुत्तरगुणाभिधित्सयाऽऽहसिएहिं भिक्खू असिए परिव्वए, असजमित्थीसु चइज पूयणं । अणिस्सिओ लोगमिणं तहा परं, न मिजई कामगुणेहिं पंडिए ॥ ७॥ सिताः-बद्धाः कर्मणा गृहपाशेन रागद्वेषादिनिबन्धनेन वेति गृहस्था अन्यतीर्थिका वा तैः 'असितः' अबद्धः-तैः सार्द्ध| सङ्गमकुर्वन् भिक्षुः 'परिव्रजेत्' संयमानुष्ठायी भवेत् , तथा स्त्रीषु 'असजन्' सङ्गमकुर्वन् पूजनं त्यजेत्-न सत्काराभिलाषी भवेत् , तथा 'अनिश्रितः' असंबद्धः 'इहलोके' अस्मिन् जन्मनि तथा 'परलोके' स्वर्गादाविति, एवंभूतश्च 'कामगुणैः' मनोज्ञशब्दादिभिः 'न मीयते' न तोल्यते न स्वीक्रियत इतियावत् 'पण्डितः' कटुविपाककामगुणदशीति ॥ ७॥ तहा विमुक्कस्स परिनचारिणो, धिईमओ दुक्खखमस्स भिक्खुणो। विसुज्झई जंसि मलं पुरेकर्ड, समीरियं रुप्पमलं व जोइणा ॥८॥ ॥४३०॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250