SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ AURANGARHWARREARSA तमित्थंभूतं भिक्षं 'नरा': मिथ्यादृष्टयः पापोपहतात्मानः 'वाग्भिः' असभ्यालापैः 'तुदन्ति' व्यथन्ते, पीडामुत्सादयन्तीत्यर्थः, तथा लोष्टप्रहारादिभिरभिद्रवन्ति च, कथमिति दृष्टान्तमाह-शरैः सयामगतं कुञ्जरमिव ॥ २॥ अपिच___ तहप्पगारेहिं जणेहिं हीलिए, ससहफासा फरुसा उईरिया । तितिक्खए नणि अदुट्ठचेयसा, गिरिठव वाएण न संपवेयए ॥ ३ ॥ _ 'तथाप्रकारैः' अनार्यप्रायैर्जनैः 'हीलितः' कदर्थितः, कथं ?, यतस्तैः परुषास्तीत्राः सशब्दाः-साक्रोशाः स्पा:-शीतोष्णादिका दुःखोसादका उत्-प्राबल्येनेरिता-जनिताः कृता. इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यक्सहते, यतोऽसौ 'ज्ञानी' पूर्वकृतकमेण एवार्य विपाकानुभव इत्येवं मन्यमानः, 'अदुष्टचेताः' अकलुषान्तःकरणः सन् 'न तैः संप्रवेपते' न कम्पते गिरिरिव वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह___उवेहमाणे कुसलेहिं संवसे, अकंतदुक्खी तसथावरा दुही । अलूसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥ ४ ॥ 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बमानः 'कुशलैः' गीतार्थैः सह संवसेदिति, कथम् ?, अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां सस्थावराणां तान् दुःखिनस्त्रसस्थावरान् 'अलूपयन्' अपरितापयन् पिहिताश्रवद्वारः पृथ्वीवत् 'सर्वसहः' परीषहोपसर्गसहिष्णुः 'महामुनिः' सम्यग्जग-15 त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः॥ ४॥ किञ्चविऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ । समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वडुइ ॥५॥ 'विद्वान्' कालज्ञः 'नतः' प्रणतः प्रहः, किं तत्?–'धर्मपदं' क्षान्त्यादिकं, किंभूतम् ?–'अणुत्तरं' प्रधानमित्यर्थः,
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy