________________
श्रीआचारावृत्तिः (शी०)
श्रुतस्कं०२ चूलिका ४ विमुक्त्य.
॥४२९॥
सूत्रानुगमे सूत्रभुञ्च तत्र देशतः साधूनां भवस्थेक्षवनिक्षेप इत्यर्थः, देसविमुक्का साहू सम्ववियु
जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साहू सव्वविमुक्का भवे सिद्धा ३४३ य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवन्निक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वभेदावधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यन्तानां, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्
अणिञ्चमावासमुर्विति जंतुणो, पलोयए सुच्चमिणं अणुत्तरं । विउसिरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गडं चए ॥ १॥ __ आवसन्त्यस्मिन्नित्यावासो-मनुष्यादिभवस्तच्छरीरं वा तमनित्यमुप-सामीप्येन यान्ति-गच्छन्ति जन्तवः-प्राणिन इति, चतसृष्वपि गतिषु यत्र यत्रोत्पद्यन्ते तत्र तत्रानित्यभावमुपगच्छन्तीत्यर्थः, एतच्च मौनीन्द्रं प्रवचनमनुत्तरं श्रुत्वा 'प्रलोकयेत्' पर्यालोचयेद्, यथैव प्रवचनेऽनित्यत्वादिकमभिहितं तथैव लक्ष्यते-दृश्यते इत्यर्थः, एतच्च श्रुत्वा प्रलोक्य |च विद्वान् 'व्युत्सृजेत्' परित्यजेत् 'अगारबन्धनं' गृहपाशं पुत्रकलनधनधान्यादिरूपं, किम्भूतः सन् ? इत्याह'अभीरुः' सप्तप्रकारभयरहितः . परीषहोपसर्गाप्रधृष्यश्च 'आरम्भं' सावद्यमनुष्ठानं परिग्रहं च सबाह्याभ्यन्तरं त्यजेदिति ॥ १॥ साम्प्रतं पर्वताधिकारे,
तहागय भिक्खुमणंतसंजयं, अणेलिसं विनु चरंतमेसणं । तुदंति वायाहि अभिद्दवं नरा, सरेहिं संगामगयं व कुंजरं ॥ २ ॥ तथाभूतं साधुम्-अनित्यत्वादिवासनोपेतं व्युत्सृष्टगृहबन्धनं त्यक्तारम्भपरिग्रह, तथाऽनन्तेष्वेकेन्द्रियादिषु सम्यम् यतः संयतस्तम् 'अनीदृशम्' अनन्यसदृशं 'विद्वांसं' जिनागमगृहीतसारम् 'एषणायां चरन्त' परिशुद्धाहारादिना वर्तमानं,
॥४२९॥