SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ विचिन्त्य मितमवग्रहं साधर्मिकसम्बन्धिनं गृह्णीयात् , इत्येवमाज्ञया तृतीयत्रतमाराधितं भवतीति । चतुर्थव्रते प्रथमेयम्-स्त्रीणां सम्बन्धिनी कथां न कुर्यात्, द्वितीयायां तु तदिन्द्रियाणि मनोहारीणि नालोकयेत् , तृतीयायां तु पूर्वक्रीडितादि न स्मरेत् , चतुझं नातिमात्रभोजनपानासेवी स्यात् , पञ्चम्यां तु स्त्रीपशुपण्डकविरहितशय्याऽवस्थानमिति । पञ्चमवतभावना पुनरेपा-श्रोत्रमाश्रित्य मनोज्ञान् शब्दान् श्रुत्वा न तत्र गाय विदध्यादिति, एवं द्वितीयतृतीयचतुर्थपञ्चमभावनासु यथाक्रम रूपरसगन्धस्पर्शेषु गाय न कार्यमिति, शेषं सुंगमं यावदध्ययनं समाप्तमिति ॥ भावनाख्यं पञ्चदशमध्ययनं । तृतीया चूडा समाप्तेति ॥ २-३-१५। ___ उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितुं नियुक्तिकृदाह अणिच्चे पव्वए रुप्पे भुयगस्स तहा (या) महासमुद्दे य। एए खलु अहिगारा अज्झयणंमी विमुत्तीए ३४२ ___ अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकार एवं समुद्राधिका8 रश्च, इत्येते पञ्चाधिकारास्तांश्च यथायोगं सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टुं नियुक्तिकार आह
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy