SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ |चूलिका ३ ॥४२८॥ 4444AKAR न त्वसमितो भवेत् , किमिति ?, यतः केवली ब्रूयात्कर्मोपादानमेतद् , गमनक्रियायामसमितो हि प्राणिनः 'अभिहन्यात्'। पादेन ताडयेत्, तथा 'वर्त्तयेत्' अन्यत्र पातयेत् , तथा 'परितापयेत्' पीडामुत्पादयेत् , 'अपद्रापयेद्वा' जीविताद्यपरोपवेदित्यत ईर्यासमितेन भवितव्यमिति प्रथमा भावना, द्वितीयभावनायां तु मनसा दुष्प्रणिहितेन न भाव्यं, तद्दर्शयति-यन्मनः 'पापक' सावधं सक्रियम् 'अण्हयकर ति कर्माधवकारि, तथा छेदनभेदनकर अधिकरणकरं कलहकरं प्रकृष्टदोषं प्रदोषिकं तथा प्राणिनां परितापकारीत्यादि न विधेयमिति, अथापरा तृतीया भावना-दुष्प्रसक्ता. या वाक् प्राणिनामपकारिणी सा नाभिधातव्येति तात्पर्याः, तथा चतुर्थी भावना-आदानभाण्डमात्रनिक्षेपणासमितिः, तत्र च निर्मन्थेन साधुना समितेन भवितव्यमिति, तथाऽपरा पञ्चमी भावना-'आलोकितं' प्रत्युपेक्षितमशनादि भोक्तव्यं, तदकरणे दोषसम्भवादिति, इत्येवं पञ्चभिर्भावनाभिः प्रथमं व्रतं स्पर्शितं पालितं तीर्ण कीर्तितमवस्थितमाज्ञयाऽऽराधितं भवतीति । द्वितीयत्तभावनामाह, तत्र प्रथमेयम्-अनुविचिन्त्यभाषिणा भवितव्यं, तदकरणे दोष सम्भवात् , द्वितीय भावनायां तु क्रोधः सदा परित्याज्यो, यतः क्रोधान्धो मिथ्याऽपि भाषत इति, तृतीयभावनायां तु लोभजयः कर्त्तव्यः, तस्यापि मृषावादहेतुत्वादिति हृदयम्, चतुर्थ्यां पुनर्भयं त्याज्यं, पूर्वोक्तादेव हेतोरिति, पञ्चमभावनायां तु हास्यमिति, एवं पञ्चभिभोवनाभिर्यावदाज्ञयाऽऽराधितं भवतीति । तृतीयव्रते प्रथमभावनैषा-अनुविचिन्त्य शुद्धोऽवग्रहो याचनीय इति, द्वितीयभावना त्वाचार्यादीननुज्ञाप्य भोजनादिकं विधेयम्, तृतीया त्वेषा-अवग्रहं गृह्णता निर्ग्रन्थेन साधुना परिमित एवावग्रहो ग्राह्य इति, चतुर्थभावनायां तु 'अभीक्ष्णम्' अनवरतमवग्रहपरिमाणं विधेयमिति, पञ्चम्यां त्वन ॥ ४२८॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy