Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay,
Publisher: Parampad Prakashan
View full book text
________________
पार्श्वनाथस्य धरणेन्द्रमहिमास्थाने, एवं रथावर्चे पर्वते वैरस्वामिना यत्र पादपोपगमनं कृतं यत्र च श्रीमद्वर्द्धमानमाश्रित्य चमरेन्द्रेणोत्पतनं कृतम्, एतेषु च स्थानेषु यथासम्भवमभिगमनवन्दन पूजनोत्कीर्त्तनादिकाः क्रियाः कुर्वतो दर्शनशुद्धिर्भवतीति ॥ किञ्च -
गणियं निमित्त जुत्ती संदिट्ठी अवितहं इमं नाणं । इय एगंतमुवगया गुणपच्चइया इमे अत्था ॥ ३३३ ॥ गुणमाहप्पं इसिनामकित्तणं सुरनरिंदवूया य । पोराणचेइयाणि य इय एसा दंसणे होइ ॥ ३३४ ॥
प्रवचनविदाममी गुणप्रत्ययिका अर्धा भवन्ति, तद्यथा - गणितविषये - बीजगणितादौ परं पारमुपगतोऽयं, तथाऽष्टाङ्गस्य निमित्तस्य पारगोऽयं, तथा दृष्टिपातोक्ता नानाविधा युक्तीः- द्रव्यसंयोगान् हेतून्वा वेत्ति तथा सम्यग् - अविपरीता दृष्टिः- दर्शनमस्य त्रिदशैरपि चालयितुमशक्या तथाऽवितथमस्येदं ज्ञानं यथैवायमाह तत्तथैवेत्येवं प्रावचनिकस्याचार्यादेः प्रशंसां कुर्वतो दर्शनविशुद्धिर्भवतीति, एवमन्यदपि गुणमाहात्म्यमाचार्यादेवर्णयतः तथा पूर्वमहर्षीणां च नामोकीर्त्तनं कुर्वतः तेषामेव च सुरनरेन्द्रपूजादिकं कथयतः तथा चिरन्तनचैत्यानि पूजयतः इत्येवमादिकां क्रियां कुर्वतस्तद्वासनावासितस्य दर्शन विशुद्धिर्भवतीत्येषा प्रशस्ता दर्शनविषया भावनेति । ज्ञानभावनामधिकृत्याह
तत्तं जीवाजीवा नायव्वा जाणणा इहं दिट्ठा । इह कज्जकरणकारगसिद्धी इह बंधमुक्खो य ॥ ३३५ ॥ बद्धो य बंधक बंधणबंधष्फलं सुकहियं तु । संसारपवचोऽवि य इहयं कहिओ जिणकरेहिं ॥ ३३६ ।। नाणं भविस्सई एवमाझ्या वायणाइयाओ य । सज्झाए आउत्तो गुरुकुलवासो य इय नाणे ॥ ३३७ ॥

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250