________________
SANSAR
गण्डीपदादिव्याधिग्रस्तं पश्येत्तथाऽपि तस्य यः कश्चिद्विशिष्टो गुण ओजस्तेज इत्यादिकस्तमुद्दिश्य सति कारणे वदेदिति, केशववत्कृष्णश्वशुक्लदन्तगुणोद्घाटनवद्गुणग्राही भवेदित्यर्थः ॥ तथा स भिक्षुर्यद्यप्येतानि रूपाणि पश्येत्तद्यथा-वप्राः प्राकारा यावद्गृहाणि, तथाऽप्येतानि नैवं वदेत् , तद्यथा-सुकृतमेतत् सुष्टु कृतमेतत् साधु-शोभनं कल्याणमेतत् , कर्त्तव्यमेवैतदेवंविधं भवद्विधानामिति, एवंप्रकारामन्यामपि भाषामधिकरणानुमोदनात् नो भाषेतेति ॥ पुनर्भाषणीयामाहस भिक्षुर्वप्रादिकं दृष्ट्वाऽपि तदुद्देशेन न किश्चिद् ब्रूयात्, प्रयोजने सत्येवं संयतभाषया ब्रूयात् , तद्यथा-महारम्भकृतमेतत् सावद्यकृतमेतत् तथा प्रयत्नकृतमेतत् , एवं प्रसादनीयदर्शनादिकां भाषामसावद्यां भाषेतेति ॥
से भिक्खू वा २ असणं वा० उवक्खडियं तहाविहं नो एवं वइज्जा, तं० सुकडेत्ति वा सुटुकडे इ वा साहुकडे इ वा कल्लाणे इ वा करणिज्जे इ वा, एयप्पगारं भासं सावजं जाव नो भासिज्जा ॥ से भिक्खू वा २ असणं वा ४ उवक्खडियं पेहाय एवं वइजा, तं०-आरंभकडेत्ति वा सावजकडेत्ति वा पयत्तकडे इ वा भद्दयं भद्देति वा ऊसढं ऊसढे इ वा रसियं
२ मणुन्नं २ एयप्पगारं भासं असावजं जाव भासिज्जा ॥ (सू० १३७) एवमशनादिगतप्रतिषेधसूत्रद्वयमपि नेयमिति, नवरम् 'ऊसढ'न्ति उच्छ्रितं वर्णगन्धायुपेतमिति ॥ पुनरभाषणीयामाहकिश्च- .
से भिक्खू वा भिक्खुणी वा मणुस्सं वा गोणं वा महिसं वा मिगं वा पसुं वा पक्नि वा सरीसि वा जलचरं वा से त्तं परिवूढकायं पेहाए नो एवं वइज्जा-थूले इ वा पमेइले इ वा बट्टे इ वा वझे इ वा पाइमे इ वा, एयप्पगारं भासं सा