________________
राया जयउ वा मा जयउ, नो एयप्पगारं भासं भासिज्जा ॥ पन्नवं से भिक्खू वा २ अंतलिक्खेत्ति वा गुज्झाणुचरिपति वा संमुच्छिए वा निवइए वा पओ वइज्जा वुट्ठबलाहगेत्ति वा, एयं खलु तस्स भिक्खुस्स भिक्खुणीए वा सामग्गियं जं सव्वद्वेहिं समिए सहिए सया जइज्जासि तिबेमि २-१-४-१ | भाषाध्ययनस्य प्रथमः । ( सू० १३५ )
स भिक्षुरेवंभूतामसंयतभाषां न वदेत्, तद्यथा-नभोदेव इति वा गर्जति देव इति वा तथा विद्युद्देवः प्रवृष्टो देवः निवृष्टो देवः, एवं पततु वर्षा मा वा, निष्पद्यतां शस्यं मेति वा, विभातु रजनी मेति वा, उदेतु सूर्यो मा वा, जयत्वसौ राजा मा वेति, एवंप्रकारां देवादिकां भाषां न भाषेत ॥ कारणजाते तु प्रज्ञावान् संयतभाषयाऽन्तरिक्षमित्यादिकया भाषेत, एतत्तस्य भिक्षोः सामय्यमिति ॥ चतुर्थस्य प्रथमोद्देशकः समाप्तः २-१-४-१ ॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वाच्यावाच्यविशेषोऽभिहितः, तदिहापि स एव शेषभूतोऽभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् —
से भिक्खू वा जहा वेगईयाई रुवाई पासिज्जा तहावि ताइं नो एवं वइज्जा, तंजहा गंडी गंडीति वा कुट्टी कुट्ठीति वा जाव मधुमेहुणीति वा हत्यच्छिन्नं हत्यच्छिन्नेत्ति वा एवं पायछिन्नेत्ति वा नक्कछिण्णेइ वा कण्णछिन्नेइ वा उट्ठछिन्नेति वा, जेयाबन्ने तहप्पगारा एयप्पगाराहिं भासाहिं बुझ्या २ कुप्पंति माणवा ते यावि तहप्पगाराहिं भासाहिं अभिकंख नो भासिज्जा ।