Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 176
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३९५ ॥ वस्त्रमम्बेष्टुं जानीयात्, तद्यथा - 'उद्दिष्टं' प्राक् सङ्कल्पितं वस्त्रं याचिष्ये, प्रथमा प्रतिमा १, तथा 'प्रेक्षित' दृष्टं सद् वस्त्रं याचिष्ये नापरमिति द्वितीया २ तथा अन्तरपरिभोगेन उत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया ३, तथा तदेवोत्सृष्टधार्मिकं वस्त्रं ग्रहीष्यामीति चतुर्थी प्रतिमेति ४ सूत्रचतुष्टयसमुदायार्थः । आसां चतसृणां प्रतिमानां शेषो विधिः पिण्डैषणावन्नेय इति ॥ किञ्च - 'स्यात् ' कदाचित् 'णम्' इति वाक्यालङ्कारे 'एतया' अनन्तरोक्तया वस्त्रैषणया वस्त्रमन्वेषयन्तं साधुं परो वदेद्, यथा-आयुष्मन् ! श्रमण ! त्वं मासादौ गते समागच्छ ततोऽहं वस्त्रादिकं दास्यामि इत्येवं तस्य न शृणुयात्, शेषं सुगमं यावदिदानीमेव ददस्वेति, एवं वदन्तं साधुं परो ब्रूयाद्, यथा- अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि इत्येतदपि न प्रतिशृणुयाद्, वदेच्चेदानीमेव ददस्वेति, तदेवं पुनरपि वदन्तं साधुं 'परो' गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् यथाऽऽनयैतद्, वस्त्रं येन श्रमणाय दीयते, वयं पुनरात्मार्थं भूतोपमर्देनापरं करिष्याम इति एतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयादिति ॥ तथा - स्यापर एवं वदेद्, यथा- स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधं विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात्, ततो न प्रतिगृह्णीयादिति ॥ एवमुदकादिना धावनादिसूत्रमपि ॥ स परो वदे - द्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि पूर्ववन्निषेधादिकश्चर्च इति । किञ्च - स्वासरो याचितः सन् कदाचिद्वत्रं 'निसृजेत्' दद्यात् तं च ददमानमेवं ब्रूयात्, यथा-स्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षिष्ये, नैवा श्रुतस्कं० २ चूलिका १ वस्त्रैष० ५ उद्देशः १ ॥ ३९५ ॥

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250