Book Title: Acharanga Sutram Uttar Bhag
Author(s): Tattvadarshanvijay, 
Publisher: Parampad Prakashan

View full book text
Previous | Next

Page 203
________________ सू. ६९ मितः पञ्चभिः समितिभिः 'सदा' यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येव मन्येतेति ब्रवीमीति पूर्ववत् ॥ निषीधिकाऽध्ययनं द्वितीयमादितो नवमं समाप्तमिति । २-२-२ ॥ साम्प्रतं तृतीयः सप्तैककः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरे निषीधिका प्रतिपादिता, तत्र च कथम्भूतायां भूमावुच्चारादि विधेयमिति, अस्य च नामनिष्पन्ने निक्षेपे उच्चारप्रश्रवण इति नाम, तदस्य निरुक्त्यर्थं निर्युक्तिकृदाहउच्चवर सरीराओ उच्चारो पसवइन्ति पासवणं । तं कह आयरमाणस्स होइ सोही न अइयारो ? || ३२१ ॥ शरीरादुत्-प्राबल्येन च्यवते - अपयाति चरतीति वा उच्चारः - विष्ठा, तथा प्रकर्षेण श्रवतीति प्रश्रवणम् - एकिका, तच्च कथमाचरतः साधोः शुद्धिर्भवति नातिचार इति । ॥ उत्तरगाथया दर्शयितुमाह मुणिणा छक्कायदयावरेण सुत्तभणियंमि ओगासे । उच्चारविउस्सग्गो कायव्वो अप्पमत्तेणं ॥ ३२२ ॥ 'साधुना' षड्जीवकायरक्षणोद्युक्तेन वक्ष्यमाणसूत्रोक्ते स्थण्डिले उच्चारप्रश्रवणे विधेये अप्रमत्तेनेति ॥ निर्युक्त्यनुगमानन्तरं सूत्रानुगमे सूत्रं तच्चेदम् से. मि० उच्चारपासवणकिरियाए उब्बाहिजमाणे सयस्स पायपुंछणस्स असईए तओ पच्छा साहम्मियं जाइज्जा | से मि० से जं पु० थंडिलं जाणिज्जा सअंडं० तह० थंडिलंसि नो उच्चारपासवणं वोसिरिजा ॥ से भि० जं पुण थं० अप्पपाणं जाव संताणयं तह० थं० उच्चा॰ वोसिरिज्जा | से मि० से जं० अस्सिपडियाए एवं साहम्मियं समुद्दिस्स वा अस्सि० बहवे

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250