Book Title: Abhigyan Shakuntalam Nam Natakam Author(s): Mahakavi Kalidas, Guruprasad Shastri Publisher: Bhargav Pustakalay View full book textPage 6
________________ अभिज्ञानशाकुन्तलम् [प्रथमो. आङ्गिको, वाचिकश्चैवमाहायः, सात्त्विकस्तथा // ' इति / " तत्र-दृश्यं = नाट्यम् / तदुक्तं दशरूपके 'अवस्थाऽनुकृतिर्नाट्यम्' इति / अग्निपुराणेऽपि . 'त्रिवर्गसाधनं नाट्यम्' इति / रसार्णवसुधाकरेऽपि 'शृङ्गारादिरसाधारं नाट्यं, रूपकमित्यपि / नटस्यातिप्रवीणस्य कर्मत्वान्नाट्यमुच्यते // यथा मुखादौ पद्मादेरारोपो रूपकप्रथा / तथैव नायकारोपो नटे रूपकमुच्यते ॥'-इति // तदेवंरूपे नाटके समुपनिबद्धं वृत्तं-'वस्तु',इत्युच्यते / तत्र-नाटकलक्षणमुक्तं साहित्यदर्पणे- . 'नाटकं ख्यातवृत्तं स्यात्पश्चसन्धिसमन्वितम् / विलासर्यादिगुणवद्युक्तं नानाविभूतिभिः / / सुख-दुःखसमुद्भूति, नानारसनिरन्तरम् / पञ्चादिका दशपरास्तत्राऽङ्काः परिकीर्तिताः // प्रख्यातवंशो राजर्षिीरोदात्तः प्रतापवान् / दिव्योऽथ दिव्याऽदिव्यो वा गुणवान्नायको मतः / / एक एव भवेदङ्गी शृङ्गारो, वीर एव वा। अङ्गमन्ये रसाः सर्व, कार्यो निर्वहणेऽद्भतः // चत्वारः, पञ्च वा मुख्या: कार्यव्यापृतपूरुषाः / गोपुच्छाग्रसमाग्रन्तु बन्धनं तस्य कीर्तितम् ॥'-इति // तदेवंरूपस्य नाटकस्य-पूर्वमाचरणीयः पूर्वरङ्गो नाम / तथा च भरतः 'यस्माद्रङ्गप्रयोगोऽयं पूर्वमेव प्रयोज्यते / तस्मादयं पूर्वरङ्गः- // इति / [ नाट्य० 5 अध्याये ] विश्वनाथोऽपि-- 'यन्नाट्यवस्तुनः पूर्व रङ्गविघ्नोपशान्तये /Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 640