Book Title: Aagam 14 JIVAJIVABHIGAM Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 911
________________ आगम (१४) “जीवाजीवाभिगम" - उपांगसूत्र-३ (मूलं+वृत्ति:) प्रतिपत्ति: [सर्वजीव], ------------------- प्रति प्रति० [४], ------------------ मूलं [२६१] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१४], उपांग सूत्र - [३] "जीवाजीवभिगम" मूलं एवं मलयगिरि-प्रणीत वृत्ति: प्रत सूत्रांक PROTOCOCO+ [२६१] 15613 गाथा सव्वत्थोचा माणकसाई तहा अणतगुणा । कोहे माया लोभे विसेसमहिया मुणेतव्वा ॥१॥ (सू०२६१) 'तत्य जे ते' इत्यादि, तत्र ये ते एवमुक्तवन्तः पञ्चविधाः सर्वजीवा: प्रज्ञप्तास्ते एवमुक्तवन्तस्तद्यथा-कोधकषायिणो मानकषा|विणो मायाकषायिणो लोभकषायिणोऽकषायिणश्च ।। अमीषा कायस्थितिमाह-कोहकसाई णं भंते' इत्यादि, क्रोधकषायी जघन्येनाप्यन्तर्मुहूर्त, "क्रोधाद्युपयोगकालोऽन्तर्मुहूर्त"मिति वचनात् , एवं मानकषायी मायाकषायी च वक्तव्यः, लोभकषायी जघन्येनैकं | समयं, स चोपशमश्रेणेः प्रतिपतन लोभकषायोदयप्रथमसमयानन्तरं मृत: प्रतिपत्तव्यो, मरणसमये कस्यापि क्रोधाद्युदयसम्भवात् , क्रमेण प्रतिपतनं हि मरणाभावे न तु मरणेऽपीति, उत्कर्षतोऽन्तर्मुहूर्त, अकषायी द्विविध:-साद्यपर्यवसितः केवली, सादिसपर्यवसित उपशान्तकषायः, स च जघन्येनैकं समयं द्वितीये समये मरणतः क्रोधायुदयेन सकषायत्वप्राप्तः, उत्कर्षतोऽन्तर्मुहूर्त्तमुपशान्तमोहगुणस्थानककालमैतावत्प्रमाणत्लादित्येके, अन्ये लभिदधति-जघन्यतोऽप्यन्तर्मुह, न लोभोपशमप्रवृत्तस्यान्तेऽन्तर्गहीदयो मरणमिति बृद्धवादात् , उत्कर्षतोऽप्यन्तर्मुहूर्त्तमुपशान्तमोहगुणस्थानककालस्योत्कर्षतोऽप्येतावन्मात्रत्वात् , नवरं जघन्यपदादुत्कृष्टपदं विशेषाधिकमवसातव्यं, युक्तं चैतत् सूत्रकृतोऽभिप्रायेण प्रतिभासते, लोभकषायिणो जघन्यत उत्कर्षतश्चान्तर्मुहूर्तान्तराभिधानात् , वक्ष्यति च- लोभकसाइयस्स जह• अंतो० उक्कोसेणवि अंतोमुहुत्तमंतर"मिति ॥ साम्प्रतमन्तरमाह-कोहकसाइस्स णं भंते! इत्यादि, क्रोधकषाविणोऽन्तरं जघन्येनैक समयं, तदुपशमसमयानन्तरं मरणे भूयः कस्यापि तदुदयात् , उत्कर्षतोऽन्तर्मुहूर्त, एवं | मानकषायिमायाकषायिसूत्रे अपि वक्तव्ये, लोभकषायिणो जघन्येनोत्कृष्टेनाप्यन्तर्मुहूर्च नवरंमुत्कृष्टं वृहत्तरमवसातव्यम् , अकषा E567 SOAMROSCA दीप अनुक्रम [३८६-३८७] % F ~910~

Loading...

Page Navigation
1 ... 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934 935 936 937 938