Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 149
________________ शास्त्रार्थकलोपस्कृतः विशेषणतयान्वितेन गुरुमते तु विध्यर्था पूर्वाशे धात्वर्थभक्षणादेः प्रतियोगितयान्वयेऽपि न क्षतिः । १४१ नमुपस्थाप्याभावेन राजपुरुष इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोधः किन्तु तेन समं विभक्त्यन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्य राज सम्बन्ध्यादेरभेदान्वयबोध एवेति न एवं मुखं चन्द्र इत्यादिरूपकस्थले चन्द्रादिपदस्य चन्द्रादिसदृशलक्षणया चन्द्रादिसदृशाभेदान्वयबोध एव न तु दोषः । सादृश्यादि संबन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचारः । Sभावानां बलवदनिष्टानुबन्धित्वाभावरूपत्वेन प्रकृते विरोधाऽभाषादेतदुत्तरस्य सामान्यरूपेण पूर्वमेवोक्तत्त्वात् । गुरुमते त्विति । प्रभाकरंनामकमीमांसकमत इत्यर्थः । तन्मते धात्त्वर्थं भक्षणस्य स्वप्रतियोगिकत्वसम्बन्धेन नञर्थाऽभावेऽन्वयः, अभावस्य च प्रयोज्यत्वसम्बन्धेन लिङर्थाऽपूर्वेऽन्वयः, सन्मतेऽपूर्वपदेन पुण्यं गृह्यते । एवञ्च कलञ्जभक्षणप्रतियोगिकाभावप्रयोज्यमपूर्वमिति शाब्दबोधः । अस्मिन्मते कलञ्जभक्ष णाऽसावब्रन्यम्पुण्यमेव कलञ्जभक्षणमनिष्टजनकमिति न भवति । नैयायिकमते तु कलञ्जभक्षणमनिष्टजनकम्भवति कलञ्जभक्षणाऽभावः पुण्यजनको न भवतीति मतद्वयवैलक्षण्यम् । विध्यर्थश्चाऽपूर्वम् क्रिया क्षणविनाशिनी न कालान्तरभाविनस्स्वर्गादेत्साधनायोपपद्यते इति • कालान्तरस्थायिक्रियातो भिन्नं कार्यमपूर्वं लिङादयो बोधयन्ति कार्याभिधानं कृतिमनभिदधतां लिङादीनान्नीपपद्यतेऽतः कृतिमप्यभिदधति अपूर्वश्च इति तद्ग्रन्थः । इष्टसाधनत्त्वन्न लिडर्थः १ "अहरहस्सन्ध्यामुपासीत " प्रत्यहं शुचिरसन्ध्यामुपासीते"त्यादिश्रुतिप्रतिपाद्यनित्यकर्मणः फलजनकत्त्वाभावेन सन्ध्योपासनमिष्ट जनकमितिव्यवहाराऽप्रतीतेः । कलअ भक्षणप्रतियोगिकाऽभाववदपूर्वमुत्पादयेदिति बोधः । राजपुरुष इति । अयमभिप्रायः, पीतमम्बरं यस्येतिविग्रहबाक्यात् यत्सम्बन्धिपीताऽभिन्नाऽम्बरमिति बोधः । पीताम्बर इतिहुव्रीहिसमासाच्च पीताऽभिन्नाम्बरवानिति बोधः । समासविग्रहवाक्ययोर्विभिन्नाकारकबोधोदयदर्शनेन समासविग्रहवाक्ययोर्न समा तथा च नित्यकर्मेति — कर्म त्रिविधम् १ नित्यम् २ नैमित्तिकम् ३ काम्यचेतिकर्मकाण्डोपासकाः । तत्र यस्मिन् कृते किमपि फलन्न अकृते च प्रत्यवायो महान् भवतीत्येतादृशङ्कर्म सन्ध्योपासनादिकन्नित्यम् । द्वितीयं निमित्ताज्जातन्नैमित्तिकन्तत्र न पूर्ववद् वैलक्षण्यम् । किन्तु करणे पुण्यमकरणे पापं यथा राहूपराग ( चन्द्रादिग्रहण ) स्नानादिकम् । तृतीयं यत्किमपि कमनीयं साफल्यवाञ्छया मनसिकृत्यानुष्ठीयते तत् । यथा पुत्रादिलिप्सया पुत्रेष्टियागादिकम् ।

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296