Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 211
________________ शास्त्रार्थकलोपरकृतः घटत्वे प्रकारताख्यविषयतासत्त्वात् द्वन्द्वप्राप्स्सौष्ठवात् अपवादत्वकथनं सयुक्तिकमेवेतिव्याख्यानात् । किञ्च घटा इत्यत्रैकशेषाऽभावेऽपि बहुघटबोधनसत्त्वदशायाम्बिव. क्षितबहुत्वान्वयादेव बहुघटबोधसम्भवात् । सरूपैकशेषविधिस्तु सिंहत्वसूर्यत्वकपित्वविष्णुत्वाद्यनेकपदार्थतावच्छेदकभेदे हरयस्तिष्ठन्तीत्यादौ चरितार्थ इत्याशयात् । तथा च नीलघटयोरभेद इत्यादी नीलवघटत्वयोर्मेंदादेव द्वन्द्व एवं सर्वत्रापि बोध्यम् । ___ नच कचित्पदार्थभेदे द्वन्द्वः कचित्पदार्थतावच्छेदकभेदे द्वन्द्व इतिन्यायसिद्धान्तो दिनकामुक्तःकथन्नाद्रियते तावताऽपि पूर्वोक्तदोषोद्धारादिति वाच्यम् ? पदार्थतावच्छेदकभेदस्य द्वन्द्वनियामकत्वे एकस्मिन्नपि पुंसि दण्डिकुण्डलिनी गच्छत इतिप्रयोगाऽपत्तेः । पदार्थतावच्छेदकदण्डकुण्डलादिभेदस्य सत्त्वात् । नच द्वित्वानन्वयश्शङ्कयः ? नीलबटयोरभेद इत्यादाविव पदार्थतावच्छेदके तदन्वयसम्भवात् । तथा च पदार्थभेदे द्वन्द्व इतिनिश्चितम्मतम् । __ वैयाकरणमते तु षोढा प्रातिपदिकार्थ इति शब्दोऽपि शाब्दबोधे भासत इतिनियमानुरोधेन नीलघटयोरभेदः अप्येकदन्त हेरम्ब इत्यादौ च नीलादिपदोपस्थाप्यघटादि. पदोपस्थाप्ययो देन पदार्थभेदाद् द्वन्द्वस्सुतराम् । अत एव"असुरा दैत्यदेतेयदनुजेन्द्रारिदानत्रा" इत्यादी "विरूपाणामपि समानार्थानामि ति एकशेषो न भवति ? समानप्र. वृत्तिनिमित्तकस्यैव समानार्थकत्वात् । संज्ञाशब्दे द्रव्यस्यैव प्रवृत्तिनिमित्तत्वात् । एवञ्च इन्द्रपदवदभिन्नो मधवानितिबोधस्तथा च पदार्थभेदे द्वन्द इतिसिद्धम् ।। "भूवादयो धातव'' इतिपाणिनिसूत्रे तु भूरिव वा भूवा वा इव क्रियावाचको भूः भूवा स आदियेंषान्ते भूवादयः, भूवादयश्च भूवादयश्चेत्येकशेषेण द्वन्द्वानुपपत्तिशङ्कव नोदेति । एतेनैकपदोपस्थाप्यार्थस्य परस्परम्भेदेनान्वयविरहेण द्वन्द्वाऽसङ्गतिरिति परास्तम् । सादृश्यप्रतियोगितावच्छेदकविशिष्टधर्मेण साहश्यमितिनियमः । नह्यब्राह्मणमान सादृश्यप्रतियोगितावच्छेदकव्यापकेति-सादृश्यप्रतियोगितावच्छेदकधर्मव्यापकीभूतधर्मेण साह. इयं गृह्यते इतिनियमो हि लौकिकप्रत्यये चन्द्रवन्मुखमित्यादौ क्लप्तः । सादृश्यं हि तन्द्रिनत्वे सति तद्गतभूयोधर्मवस्वम् । तद्भिन्नस्सन् तद्गता ये भूयांसो धर्मास्तादृशधर्मवान् यस्स तत्सादृश्यवान् (सदृशः) उच्यते । यथा चन्द्रभिन्नं सत् मुखं चन्द्रवृत्त्यालादकरवरूपभूयोधर्मवदपि इति भवति तत्सदृशम् । ननु चन्द्रवृत्तिर्भूयान् धर्मश्चन्द्रत्वमेव नान्य इति तेन सादृश्याश्रयणे चन्द्रत्वस्य मुखेडमावात् कथं चन्द्रवन्मुखमिति चेन्न ? सादृश्यप्रतियोगितावच्छेदकेतिप्रसिद्धनियमेनात एव समाश्रितेन सादृश्यब्यवस्थितेः । यस्य सादृश्यं कुत्रचित् नीयते तद सादृश्यस्य प्रतियोग्युच्यते,यत्र ष नीयते तत् सादृश्यस्यानुयोग्युच्यते । चन्द्रप्रतियोगिसादृश्याश्रयोमुखमितिबोधः । तत्र निय घटनन्वित्थम् , सादृश्यप्रतियोगी चन्द्रःप्रतियोगिता चन्द्रनिष्ठा प्रतियोगितावच्छेकं चन्द्रत्वन्तद्व्याप. कीभूतो धर्म आह्वादकत्वन्तादृशधर्मवत्वम्मुखे इति । तथा च प्रकृते 'भूवादय' इत्यत्र सादृश्यप्रतियोगितावच्छेकवात्वव्यापकासत्ववाचिस्वेन सादृश्याश्रयणमेव युक्तन्नत्वतादृशेन क्रियावाचकत्वेनेति चेन्न ? वाऽव्ययसाहचर्यादसस्ववचनस्य भुवो ग्रहणम् , असत्ववचनभूसाहचर्यात् क्रियावाचिनो वाशब्दस्य ग्रहणम् । क्रियावाचिवासादृश्यस्य क्रियावाचकत्वेन ग्रहणमिति परस्परसाहचर्याश्रयेण ..............

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296