Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 237
________________ शास्त्रार्थकलोपस्कृतः। २२९ गजनकक्रियाश्रयत्वस्याबाषितत्वादितिवाच्यम् ? विहगो विहगं गच्छतीस्यादौ विहगादिप्रकृत्यर्थवृत्तित्वविशिष्टसंयोगस्य क्रियायां जनकत्वस्वाश्रयनिष्प्रभेदप्रतियोगितावच्छेदकत्वोभयसम्बन्धेनान्वयोपगमात् , विहगनिष्ठक्रियायास्तद्विगनिष्ठसंयोगजनकत्वेन तज्जनकतासम्बन्धेन तत्सं. योगवश्वेऽपि विहगवृत्तित्वविशिष्टतत्संयागायतद्विहाननिभेदप्रतियोगितावच्छेदकस्वाभावान्नोत्तोभयसम्बन्धेन विशिष्टसंयोगस्वमित्यनतिप्रसङ्गात्। एवं सति परसमवेतत्वं सम्बन्धघटकमेव न तु द्वितोयार्थ इति चेत् का क्षतिः ? विहगो विहगेन गम्यते इत्यादावपि जन्यत्वस्वावन्छिन्नभेदसामानाधिकरण्योभयसम्बन्धेन क्रियायाः संयोगेऽन्वय इष्यते, तत्त. स्क्रियावच्छिन्नभेदवति भूभ्यादावेव तादृशभेदसामानाधिकरण्यसम्बन्धेन तत्तरिक्रयाविशिष्टसंयोगादिमत्त्वोपगमात्, तत्र तरिक्रयाश्रयविहगे तद्वाधेन नातिप्रसङ्ग इति ध्येयम् । . ज्ञानादिरूपसविषयकवस्त्वभिधायकधातुसमभिव्याहृतद्वितीयायाः प्राचीनमते निरूपकतासम्बन्धेन धात्वर्थान्वयि विषयत्वमर्थः। तत्र प्रकृत्यर्थस्याधेयतासम्बन्धेनान्वयः । वृत्त्यनियामकसम्बन्धस्याभावप्रतियोगितानबच्छेदकतया घट जानाति पटं नेत्यादावनुपपत्तेस्तत्र विषयित्वार्थकत्व. मेव नवोना उपवर्णयन्ति । तत्र च प्रकृत्यर्थस्य निरूपित्तत्वसम्बन्धेन, सस्य च धात्वर्थ अश्रयतासम्बन्धेनान्वयः । घटादिनिष्ठं ज्ञानादिकर्मत्वं च ज्ञानादिविषयित्वमेव । विषयित्वादौ च द्वितीयाया लक्षणेव न तु शक्तिरिति सांप्रदायिकाः। ___ वस्तुतस्तु विषयितात्वस्य संयोगत्वाद्यपेक्षया आधेयतात्वाद्यपेक्षया विषयित्वार्थकत्वमेवेति । यथा विषयत्वं स्वरूपसम्बन्धविशेषः अखण्डोपाधिों प्रकारत्वविशेष्यत्वावच्छेदकत्वसंसर्गवादीनि विषयताविशेषाः तद्वत् विषयित्वमपि । नच विषयतानिरूपकरवं विषयित्वमिति कुतो नेति वाच्यम् ? विषयितानिरूपकरवम्विषयत्वमित्यस्याऽपि पर्यनुयोगत्वात् । ज्ञानविषयातिरिक्तज्ञानादिनिरूपितधर्मविशेषो विषयतेति लक्षणं विषयतावादे । अत्र विशिष्टशास्त्रार्थस्तु अस्मस्कृतपरिकारदर्पणे द्रष्टव्यः । निर्विषयज्ञानन्न भवति शानस्य सविश्यकत्व नियमात् । विषयासविषयको न भवति घटविषयो ज्ञानमिति न भवति, किन्तु ज्ञानविषयो घट इत्येवन्तत्र प्रकारः। चैत्रो घटञ्जानातीत्यत्र घटनिरितविषयितावजज्ञानाश्रयश्चैत्र इतिशाब्दबोधः ।

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296