Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 266
________________ व्युत्पत्तिवादः। ऽसम्भव इति कथन्नैतत् गौरवन्दोषावहम् , अत एव निषादस्थपति याजयेदिति मीमांसावाक्ये निषादश्चासौ स्थपतिश्चेति कर्मधारयो न तु निषादानां स्थपतिरिति तत्पुरुषः पूर्वपदे लक्षणाप्रमङ्गात् । अत एव च राजपुरोहितौ स्वाराज्यकामौ यजे यातामित्यत्रीभयपदार्थप्रधानो राजा च पुरोहितश्चेति द्वन्द्व एव न तु राज्ञः पुरोहिताविति तत्पुरुषो लक्षणाप्रसङ्गात् । अत एव च उद्भिदा यजेत पशुकाम इत्यत्रोद्भच्छब्दः कर्मनामधे. यम् नान्यत् उद्भिनत्तीति उद्भित् खनित्रादिकन्तद् गृहीत्वा उद्भिद्वता यागेनेत्याश्रयणे तु मत्त्वर्थक्षणापत्तिरित्युद्भिदधिकरणं सङ्गच्छते। तथा च कर्तव शक्तिरिति वाच्यम् ? यत्र गौरवलाघवचर्चा नास्ति तत्र तत्र वाक्यार्थबोधोपपत्तये लक्षणा सफलैव, तद्वदिहापि स्वीकारे न क्षतिः । किञ्च प्रसिद्धाऽप्रसिद्धशक्तिम्यामेव लक्ष्यशक्यस्थले निर्वाहे वैयाकरणमते लक्षणावृत्तेरनङ्गीकारात् । गङ्गायां घोष इतिवद्रयो गतीत्यादौ अप्र. सिद्धाया एव शक्ते स्वीकारेण लक्षणया गौरवानुसन्धानं वैयाकरणमतेऽपि नास्तीति प्रतिद्वन्द्येवोत्तरमिति गौरवाऽभावात्कृतावेव शक्तिरिति विचित्रतरङ्ग इति शुक्लाः । नच कर्तरि शक्तिः व्यापाराश्रयत्वं कर्तृत्त्वम् तत्र व्यापारस्य धातुलभ्यत्त्वेनाश्रयमात्र लकारार्थ इति वैयाकरणमतेऽखण्डमाश्रयत्वं शक्यतावच्छे दकन्नैयायिकमते यत्नत्वमिव साम्यं यथा आश्रययत्वन्तथा यत्नत्वम् यत्नत्वाश्रयत्वयोस्समानरूपत्वेन कथम्वैया. करणमते गौरवं यत्नत्त्वशक्यतावच्छेदकत्वस्येवाश्रयत्वशक्यतावच्छेदके वैषम्याऽभावात् । कुमारीभार्य इत्यादौ "जातेश्चे"तिपुम्वद्भावनिषेधोपपत्तये कौमारादीनां क्षणिकपदार्थानामपि जातित्वम् । जातिलक्षणे नित्यत्वप्रवेशो नास्तीति तत्त्वम् । एवञ्च काऽपि शान्दबोधविरोधो न । किञ्च दीधितिकृता सिद्धान्तलक्षणे आश्रयत्वाधिकरणत्वादयोऽतिरिक्ता एव पदार्था अन्यथा आश्रयत्वस्य अधिकरणस्वरूपत्वे आधेयस्वरूपत्वे वा परस्पराऽसंयुक्तघटभूतलसत्वेऽपि इदानीम्भूतलं घटवदिति प्रतीतेदुरित्वात् । तथा च कथकृतिवाद इति वाच्यम् ? तत्तत्कालपुरुषाधुपाधिभेदेन तत्कालीनतत्पुरुषीयज्ञानाधिकरणसाक्षात्मंयोगसम्बन्धावच्छिन्नविषयताया आश्रयणेऽसंयुक्त भूतलं घटवदिति प्रयोगानापत्तेः । अन्यथा कालान्तरे पुरुषान्तरे च संयोगादिसत्त्वेऽनिष्ट रूपापत्तेदुवारत्वात् । नातिलक्षणे नित्यत्वखण्डनप्रकारश्च विकल्पग्रस्तः कुमारीभार्य: कुमारभार्य इत्युदाहरणद्वयदानात् इतिपक्षद्वयं समर्थितन्तत एव द्रष्टव्यम् । तथा च तत्तदाश्रयभेदाश्रयत्वम्भिन्नम्भिन्नमितिवैयाकरणमते शक्यतावच्छेदकभिया कृतावेव शक्तिरिति । किञ्च पूर्वोक्त संयोगेनाधिकरणतावान्पवतस्समवायेनेत्यापत्तेरपरिहाय्यत्वाउचेति शुक्लाः । केचित्तु __ "ल कर्मणो"तिसूत्रे ल इतिपदं षष्ठयन्तं "लः परस्मैपदमि तिवत् कस्य य आदेशस्स कर्मणीति सूत्रार्थ इति तन्न ? जसन्तत्वे श्रुतपदार्थेन सम्बन्धः षष्ठयन्तत्वे भादेशपदाध्याहार इति गौरवात् प्रथमान्तत्वमेवेति ।

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296