Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
ग्रन्थकृदन्वयपरिचयः
सृष्टिसमये ब्रह्माद्युत्पच्यनन्तरं गर्गगौतमशाण्डिल्यादयोऽग्निकल्पा महर्षयस्सम्बभूवुः । महीयांसश्च ते अग्निहोत्रादिवेदिककर्मानुष्ठानाय परमपवित्रं सरयूतटमागत्य यज्ञभूमिम् प्रकल्प्य स्थितास्तत्रैव वर्णाश्रममर्थ्यादां पालयामासुः । तत्रास्माकं पूर्वजान गर्गवंशे बनिः, गोरक्षपुर प्रान्तान्तर्वत्तिमझवली ( मझौली ) ति प्रसिद्धे विश्वसेन ( बिसेन ) क्षत्रियपालिते तद्गुरुत्वेन तस्थुः पुराणपुरुषाः । कदाचित्तीर्थयात्राङ्कुर्वन्तस्ते महानुभावाः काशीप्रयागायोध्याभिघतीर्थंत्रयमध्यभुवं जौनपुरबदलापुराभिधं मार्गस्थं सक्षत्रियाः प्रापुः । तत्र विशेषतो धर्मविपर्ययन्दुष्टजनजन्यं विलोक्य सार्धं विद्यमानं क्षत्रियमाज्ञाप्य कारयित्वा च दुष्टप्रशमं प्रातराराध्याः विजयदत्त शुक्लाः पुत्रचतुष्ट यसम्पन्नाः तत्रैव तपस्समाचारमारेभिरे । क्षत्रियकुलललामभूताश्शिष्यास्तेजबहादुरसिंहामिघाश्च तत एवारभ्य तत्रत्यप्रजास्सम्पालयामासुः । प्रातः स्मरणीयपादानान्तेषाञ्चतुर्णामेके सर्वतन्त्रस्वतन्त्रा विख्यातभूतलप्रतिष्ठाः षड दर्शनालङ्कृताः स्वनामधन्याः श्रीटीकारामशुक्लशास्त्रिणः समननिषत । ते च महानुभावाः शास्त्राध्ययनाध्यापनानन्तरं गार्हस्थ्यं सम्पाद्यं स्वज्येष्ठ सुताय अधीतशब्द वेदान्तज्योतिषशास्त्राय देवदत्तनामकाय समर्थ्यं सम्पत्तिजातम् परमत्यागमाजग्मुः । मान्याश्चामी देवदत्तशुक्लाः यावज्जीवं निर्जीविकमध्यापनञ्चक्रुः । तेषाम् पुत्राः परमादरणीयचरणाः शब्दतर्कशुद्धाद्वैतादिकृत विशिष्टश्रमाः परममत्तयोऽनेकग्रन्थकृतः साधीयांसः कीर्तिवर्णशुक्लाः गायत्र्यादिमहानुष्ठानेन तीर्थयात्रादिना साङ्गोपाङ्गं चातुराश्रम्यम्पालयाञ्चक्रुः । तदीयकनिष्ठपुत्रा घटिकाशतकशतावधान संस्कृताशुकविवैयाकरणशिरोमण्याद्यनेकपदवीभृतः श्रीवेणोमाधवशास्त्रिणोऽस्मज्जनकाः शैशवे स्वमण्डलान्तर्वत्तिरुधौलीग्रामस्थेभ्यो वैयाकरण केसरिश्रीदुर्गादत्तशास्त्रमहोदयेभ्योऽधीत्य कौमुदीशेखर मनोरमान्यायसिद्धान्तमुक्ताचल्यादिग्रन्थान् काशीमागत्य विश्वप्रसिद्धेभ्यः सर्वतन्त्र स्वतन्त्रेभ्यः शास्त्रार्थविद्यावतारेभ्यः पण्डितमार्तण्डेभ्यो महामहोपाध्यायादिपदेभ्यः श्रीशिवकुमार मिश्रशास्त्रिमहाशयेभ्यः महामहोपाध्यायश्रीजयदेव मिश्रशास्त्रिचरणेभ्यश्चाधीत्य सपरिष्कृति शब्दतर्कवेदान्तादिशास्त्रं द्वादशवर्षाध्यापनानन्तरं ग्रन्थनिर्माणे प्रवृत्ताः १ हिंसाखण्ड नकौमुदी २ कौमुदीकल्पलतिका ३ वैयाकरणभूषणसार ( टीका ) ४

Page Navigation
1 ... 293 294 295 296