Book Title: Vyutpattivada Shastrarthakala Tika
Author(s): Venimadhava Shastri
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 268
________________ व्युत्पत्तिवादः । मते । नच प्रथमान्तार्थबिशेष्यत्वे. क्रियाया विशेषणत्वे पाको भवति इत्यर्थं पचति इति शिष्टवाक्यन्नोपपन्नं स्यात् अत एव "भूवादि" सूत्रभाष्ये का तीयम्वाचो युक्तिः पचति त्वम्पचसि भवति पक्ष्यति भवतीति प्रश्ने समुत्तरम् , पचादयः क्रिया भवतिक्रियायाः को भवन्तीति । किश्च "कर्मणा यभभिप्रैती''ति सुत्रभाष्ये कियाऽपि कृत्रिमङ्कर्म क्रियापि हि क्रियया ईप्सिता भवति कया क्रियया सन्दर्शनादिक्रिययेति । नच आख्यायते सर्वप्रधानीभूतोऽर्थोऽनेनेत्याख्यातपदेन धातुरेवेति वाच्यम् १ आख्यातमाख्यातेन क्रियासातत्य इति "मयूरख्यंसकादि"सूत्रे तस्याऽग्रह्णात् । भाष्ये चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च भावकालकारकसंख्याश्चत्वारोऽर्थाः आख्यातस्य । तत्र भावप्रधानमिति तद्भाष्यम् , निष्कौशांबिरिति विषये "लुप्ताख्यातेषु चे"ति समर्थसूत्रस्थवात्तिके कृति आख्यातपदप्रयोग उपचारात् इति भाष्यम् कृत्प्रकृतिभूतधातावव्याप्तेश्च शिश्ये इति तिङन्तेऽतिव्याप्तेश्च । किञ्च आख्यातपदेन धातोर्ग्रहणे क्रियावाचकत्वमात्रे वक्तव्ये प्रधानपदनिवेशनिरर्थकत्वापत्तेश्च 1 अत एव "प्रशंसायां रूपबि'ति सूत्रभाष्ये पचति रूपम् पचतो रूपमित्यादेरसिद्धिमाशङ्कय क्रियाप्रधानमाख्यातम् द्रव्यप्रधानन्नाम यतः क्रियाम्पृष्टस्तिङाचष्टे किन्देवदत्तः करोति पचतीति द्रव्यम्पृष्ट : कृता आचष्टे कतरो देवदत्तः या पाचक इत्युक्तम् । न च नामान्याख्यातजानीति केषाञ्चिदुक्तिः कथं सिद्धथेदिति वाच्यम् ? तत्राख्यातपदेन तदवयवो धातुगृह्यते प्रमाणश्च सर्वन्नामधातुलमेवति निरुतमुणादयो बहुलमिति सूपभाष्योक्तः । प्रकृतिः प्रत्ययो विभक्तिरित्येतावन्नाम सत्ता द्रव्यं लिंग संख्या चेति नामा. र्थः । तेषु द्रव्यम्प्रधानमिति निरुक्तमाध्योक्तेश्च । किञ्च नमन्ति आख्यातार्थम्प्रति विशेषणीभवन्ति इति नामेति च निरुक्तभाष्य. म् । अव्ययातिरिक्तनामलक्षणम् उपसर्गनिपाता इत्यत्र निपातपदमव्ययमात्रोपलाणमिति तद्भावः । तथा च क्रियाप्रधानमाख्यातमित्त्यत्र प्रत्ययार्थाऽपेक्षया यत्र धास्वर्थः प्रधानन्तदाख्यातमित्त्यर्थः । नच धात्वर्थापेक्षया क्रिया कृतिः प्रधानमिति तदर्थः भावशब्देनापि कृतिरेवेति वाच्यम् ? प्रत्ययार्थः प्रधानमित्येव सिद्ध भूयत इत्यादिभावाऽख्यातेऽव्याप्तेश्च । नच क्रियाप्रधानमाख्यात्तमित्त्यत्र क्रियायाः प्रधानं क्रियाप्रधानमर्यान्क्रियानिरूपितप्रधानम्प्रथमान्तार्थ इति नैयायिकसरगिस्समायातीति वाच्यम् १ नमन्याख्यातार्थम्प्रति विशेषणीभवन्तीति तद्भाष्यविरोधात् । नच पचति स्वम्पचसि भवतीत्यत्र भवतीति सम्बोधनपदम् काञ्चिन्नायिकाम्प्रति कस्यचिदुक्तिः तामनुवदति भाष्यकार इति न क्रियाकत्तत्वेन तार्किकहानिरिति वाच्यम् ? उत्तरदले पचादयः क्रिया भवतिक्रियाया इतिदर्शनेन सम्बोधनविवरणाऽभावात् । नच तत्राषि भवतीति सम्बोधनमेव परिच्छेद्यम् को भवन्तीत्यस्य क्रियाद्वयसमभिव्याहारे एकस्याविशेषणत्वमपरस्या विशेष्यत्वं यथा गच्छति भुङ्क्ते तत्रेति कथनेन गमनं विना

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296