________________
व्युत्पत्तिवादः । मते । नच प्रथमान्तार्थबिशेष्यत्वे. क्रियाया विशेषणत्वे पाको भवति इत्यर्थं पचति इति शिष्टवाक्यन्नोपपन्नं स्यात् अत एव "भूवादि" सूत्रभाष्ये का तीयम्वाचो युक्तिः पचति त्वम्पचसि भवति पक्ष्यति भवतीति प्रश्ने समुत्तरम् , पचादयः क्रिया भवतिक्रियायाः को भवन्तीति । किश्च "कर्मणा यभभिप्रैती''ति सुत्रभाष्ये कियाऽपि कृत्रिमङ्कर्म क्रियापि हि क्रियया ईप्सिता भवति कया क्रियया सन्दर्शनादिक्रिययेति । नच आख्यायते सर्वप्रधानीभूतोऽर्थोऽनेनेत्याख्यातपदेन धातुरेवेति वाच्यम् १ आख्यातमाख्यातेन क्रियासातत्य इति "मयूरख्यंसकादि"सूत्रे तस्याऽग्रह्णात् । भाष्ये चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताश्च भावकालकारकसंख्याश्चत्वारोऽर्थाः आख्यातस्य । तत्र भावप्रधानमिति तद्भाष्यम् , निष्कौशांबिरिति विषये "लुप्ताख्यातेषु चे"ति समर्थसूत्रस्थवात्तिके कृति आख्यातपदप्रयोग उपचारात् इति भाष्यम् कृत्प्रकृतिभूतधातावव्याप्तेश्च शिश्ये इति तिङन्तेऽतिव्याप्तेश्च ।
किञ्च आख्यातपदेन धातोर्ग्रहणे क्रियावाचकत्वमात्रे वक्तव्ये प्रधानपदनिवेशनिरर्थकत्वापत्तेश्च 1 अत एव "प्रशंसायां रूपबि'ति सूत्रभाष्ये पचति रूपम् पचतो रूपमित्यादेरसिद्धिमाशङ्कय क्रियाप्रधानमाख्यातम् द्रव्यप्रधानन्नाम यतः क्रियाम्पृष्टस्तिङाचष्टे किन्देवदत्तः करोति पचतीति द्रव्यम्पृष्ट : कृता आचष्टे कतरो देवदत्तः या पाचक इत्युक्तम् । न च नामान्याख्यातजानीति केषाञ्चिदुक्तिः कथं सिद्धथेदिति वाच्यम् ? तत्राख्यातपदेन तदवयवो धातुगृह्यते प्रमाणश्च सर्वन्नामधातुलमेवति निरुतमुणादयो बहुलमिति सूपभाष्योक्तः ।
प्रकृतिः प्रत्ययो विभक्तिरित्येतावन्नाम सत्ता द्रव्यं लिंग संख्या चेति नामा. र्थः । तेषु द्रव्यम्प्रधानमिति निरुक्तमाध्योक्तेश्च ।
किञ्च नमन्ति आख्यातार्थम्प्रति विशेषणीभवन्ति इति नामेति च निरुक्तभाष्य. म् । अव्ययातिरिक्तनामलक्षणम् उपसर्गनिपाता इत्यत्र निपातपदमव्ययमात्रोपलाणमिति तद्भावः । तथा च क्रियाप्रधानमाख्यातमित्त्यत्र प्रत्ययार्थाऽपेक्षया यत्र धास्वर्थः प्रधानन्तदाख्यातमित्त्यर्थः । नच धात्वर्थापेक्षया क्रिया कृतिः प्रधानमिति तदर्थः भावशब्देनापि कृतिरेवेति वाच्यम् ? प्रत्ययार्थः प्रधानमित्येव सिद्ध भूयत इत्यादिभावाऽख्यातेऽव्याप्तेश्च । नच क्रियाप्रधानमाख्यात्तमित्त्यत्र क्रियायाः प्रधानं क्रियाप्रधानमर्यान्क्रियानिरूपितप्रधानम्प्रथमान्तार्थ इति नैयायिकसरगिस्समायातीति वाच्यम् १ नमन्याख्यातार्थम्प्रति विशेषणीभवन्तीति तद्भाष्यविरोधात् । नच पचति स्वम्पचसि भवतीत्यत्र भवतीति सम्बोधनपदम् काञ्चिन्नायिकाम्प्रति कस्यचिदुक्तिः तामनुवदति भाष्यकार इति न क्रियाकत्तत्वेन तार्किकहानिरिति वाच्यम् ? उत्तरदले पचादयः क्रिया भवतिक्रियाया इतिदर्शनेन सम्बोधनविवरणाऽभावात् । नच तत्राषि भवतीति सम्बोधनमेव परिच्छेद्यम् को भवन्तीत्यस्य क्रियाद्वयसमभिव्याहारे एकस्याविशेषणत्वमपरस्या विशेष्यत्वं यथा गच्छति भुङ्क्ते तत्रेति कथनेन गमनं विना