________________
२५९
शास्त्रार्थकलोपस्कृतः। यद्यपि भाश्रयत्त्वस्य नित्यत्वे जलवानघट इत्यादी घटादेस्त्पत्तिविनाशव्यवहारो न भवेदयम्बजदोषस्तथापि वायुत्त्वरूपयोस्समवायस्यैकत्वेऽपि रूपनिरूपितत्वाऽभावेन वायौ रूपवत्ताप्रतीत्यभाववन्न प्रतिभाति हानिस्तथापि पूर्वोक्तापतेरनिर्वार्थरत्वात् । वस्तुतस्तु
लकारस्य कर्तरि शक्ती वैयाकरणमते राजसम्बन्धिपुरषाऽभिन्नकन कं गमनमिति तात्पर्येण राशः पुरुषो गच्छतीति प्रयोगवत् स्वस्वामिभावादिसम्वन्धेन राज्ञः कत्रन्वयविवक्षया राजा पुरुषो गच्छतीति प्रयोगापत्तिः । नच तत्र षष्ठी भवति १ तदर्थस्य प्रातिपदिकार्थविशेष्यत्त्वे सत्येव विवक्षिते षष्ठीविधानादत्र तस्या अप्राप्तेः। तथा चैतत्तोषभिया कृतावेव शक्तिः प्रतिभाति ।
ननु "भावकर्मणो" रितिसूत्रेण तयोरात्मनेपदविधानम् "शेषात्कर्तरि परस्मैपदमि" ति सूत्रेण कर्तरि परस्मैपदविधानमिति लकाराणां भावफर्मकारोऽस्स्युिरेव "ल: कर्मणीति"सर्व सूत्रङ्किमर्थमिति प्रश्नः । निरुक्तरीत्या सूत्राभावे नियन्तुरभावेन सकमभ्योऽपि धातुभ्यो भावे प्रत्ययापत्तौ पटं भिद्यते यशदत्तेनेत्यादिप्रयोगापत्तेः । नचैवम् ' अकर्मकेभ्यो भावे ल', इत्येव सूत्रमस्तु भावे चेल्लकारस्तर्हि अकर्मकेभ्य एवेति न पूर्वोक्तो दोष इति वाच्यम् ? यत्र २ स्वतोनियमस्तम २ विपरीतनियमोऽपि इति न्यायेन कदाचित् “अकर्मकेभ्यश्चेद् भाव एव'' इति नियमापत्त्यां अकर्मकेभ्यः कर्त्तरोष्टरयापि लकारस्याभावापत्तेः । नच एवम् 'भावे चाकर्मकेम्यो ल” इत्येव लाघबात् सूत्रमस्तु चकारात् कर्तरीत्यनुकर्षात् अकर्मकेभ्यो भावे कर्तरि च लकारोपपत्तौ न दोष इति वाच्यम् ? कर्तरीत्यंशेऽपि भाववत् अकर्मकेम्य एवेति नियमापत्तौ सकर्मकेभ्यः कत्तरि इष्टस्यापि लकारस्याभावापत्तेः नन्वेक्मेतहोषवारणाय "लश्च" भावेचाकमकेभ्यः" इति न्यास एवास्तु पूर्वत्र योगे चकारात् कर्तरीत्यनुकृष्य लकाराः सक. मकेभ्यः कर्तरि स्युरितितात्पर्यवर्णनेन कर्मणि च शापकादेव लकारविधाने सिद्धे न दोष इति चेन्न ? उत्तरत्र "तयोरेव कृत्यक्त" इतिसूत्रे कर्मणोऽपि परामर्शार्थमेतस्यावश्यकत्वादिति । __ आख्यातस्थले क्रियामुख्यबिशेष्यकरशान्दवोधः । अत एव "भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानीति" यास्काचार्यवचनमनुकूलम् भावो भावना उत्पादना क्रियेति यावत् । अत एव चैत्रो ग्रामङ्गच्छतीत्यादावेकत्वावच्छिन्नचैत्राऽभिन्नकर्तुको वर्तमानकालिको ग्रामाऽभिन्नकर्मनिष्ठो यस्संयोगस्तदनुकूलगमनव्यापार इत्त्येवमनेकशाब्दबोधप्रकारा अस्मत्कृतपरिष्कारदर्पणे द्रष्टन्या इति वैयाकरणमतम् । काण्डे कुड्ये रमते ब्राह्मणकुलमिति क्रियाप्रधानमिति “हस्वो नपुंसके प्रातिपदिकत्ये"तिसूत्रभाष्यं सङ्गच्छते । तत्रैतनाम क्रियानुरोधेन गुणभूतक्रियावाचिभ्यः कालान्तरे प्रत्यया न तु तिङ्कालान्तरे इति व्यवतिष्ठते । प्रथमान्तार्थमुख्यविशेष्यकशान्दबोधो नैयायिक