________________
शास्त्रार्थकलोपस्कृतः ।
२६१
भोजनन्न भवतीति तत्तदधीनत्वमिति यावत् । शान्दबोधे विशेषणत्वम्विशेष्यत्वमन्व. यव्यतिरेकगम्यमिति चेद्वाच्यम् ? पूर्वोक्तानेकभाष्य उपायाऽभावात् । नच भाषप्रत्यये देवदत्तेन भूयत इत्यादौ प्रथमान्तपदाऽभावात् तदर्थस्य विशेष्यत्वाऽभावेऽपि प्रथमान्तपदसमभिव्याहारे समवायसम्बन्धावच्छिन्नैकत्वविशिष्टकत विशिष्ट क्रियाऽभयो देवदत्त इति प्रथमान्तार्थविशेष्यकबोध एव स्यादिति वाच्यम् ? ताशबोधस्यानुभवाऽगम्यत्वात् । किञ्च यत्रोभे भावप्रधाने भवत इत्युत्तरनिरुक्तविरोधात्तदर्थश्च तद्भाष्ये नामाख्यतयोः परस्परविनाभूतयोस्स्वस्वपदार्थोक्तावेकस्य भावप्राधान्यमेकस्य सत्त्वप्राधान्यम् । अथ पुनर्यत्र ते उभे भवतो वाक्ये तत्र भावप्रधाने आख्यातार्थप्रधाने वाक्ये ह्याख्यातम्प्रधानन्तदर्थत्वाद् गुणभूतनाम कृदभिहितो भावो द्रव्यवत्प्रकाशते ।।
तदर्थस्य भावनिष्पत्तावङ्गत्वात् एवन्तावद्वाक्ये आख्यातम्प्रधानमिति । अत्र नामपदेन निपातातिरिक्तस्य ग्रहणन्तेन क्रियाया नञर्थविशेषणत्त्वेऽपि न क्षतिः । अत एव हरिर्वसन्ददर्शेत्त्यादौ "धातुसम्बन्धेन प्रत्यया" इत्यनेन प्रधानतिङन्तवाच्यक्रियानुरोधेन गुणभूतक्रियावाचिभ्यः कालान्तरे प्रत्ययाः न तु तिङ् कालान्तरे इति व्यवतिष्ठते "वत मानसामीप्य" इत्यादिना कालवाध एव प्रक्रान्तः काल एव वाध्यते कृदुपस्थाप्यस्य गौणत्वानापत्ती कालवाधानुपपत्ते दर्दोषकरत्वात् । किक्ष सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यदित्यादौ क्रिययोः प्रधानाऽप्रधानभावेन कार्यकारणभावेनान्वया. भावे हेतुहेतुमत्त्वाऽप्रतीतेहेतु हेतुमतोल ङित्यादेरप्रवृत्त्यापत्तौ रूपहानिरितोऽपि क्रियाप्राधान्यमध्यवसीयते नतु प्रथमान्तार्थप्राधान्यम् । किञ्च नैयायिकमते प्रथमान्तार्थप्राधान्यस्वीकारे "पुरीमवस्कन्द लुनीहि नन्दनम्मुषाणे" त्यादौ पुर्यवस्कन्द नरूपाऽस्वा. स्थ्यक्रियेत्याकारकाद्यन्वयाऽभावे धातुसम्बन्धे विहितस्य लोडादेरनापत्तिः। नच तिङन्तोपस्थापिता क्रिया क्रियान्तरैस्समवायन्न गच्छतीति भाष्यविरोधः इति वाच्यम् ? क्रिययोः कर्तृकर्मभावेन परस्परमन्वयो भवति न तु करणत्वेनेति कैयटेन व्याख्यातस्वात् । अत एव पठन् गच्छतीतिवत्पठति गच्छतोति कुतो'नेति तद्वाक्यस्याऽप्रामाणिकत्वम् कैयटोक्तः । अत एव "सुबन्तं हि यथानकसुवन्तस्य विशेषणम् । तथा तिङस्तमप्याहुस्तिङन्तस्य विशेषणम्" । किञ्च प्रथमान्तार्थप्राधान्ये न्यायाभिमते प्रचारणीये पश्य मृगो धावति शृणु देवदत्तो गायति इत्यादौ प्रधानदर्शनक्रियाप्रति मृगस्य कर्मत्वात्तन्निरूपितद्वितीयापत्तिः । मुगकर्तृकोत्कटधावनाऽभिन्नमृगकर्मकदर्शनस्यैव तगते प्रतीतेः। वैयाकरणमते तु समवायसम्बन्धावच्छिन्नैकत्वत्त्वावच्छिन्नैकत्वविशिष्टमृगाऽभिन्नाश्रयकमृगकर्तृकोत्कटधावनकर्मफन्दर्शनमिति उत्कटधावनस्य क्रियात्वेन द्वितीयानवकाश इति वाच्यम् ? तत्र विशिष्टमहावाक्यार्थबोधे वाक्यार्थस्य कर्मवाद्वाक्यस्य प्रातिपदिकत्वाभावेन द्वितीयानवकाशात् । अत एव क्रमादमुन्नारद इत्यबोधि स इत्यादी वाक्यार्थस्य कर्मत्त्वान्न द्वितीयेति । नच निपातेनेतिनाऽभिहितत्वान्न द्वि