________________
२६२
व्युत्पत्तिबादः। तीयात्रेति वाच्यम् १ अभिधानश प्रायेण तिकृतद्धितसमासै रित्येव भाष्ये पाठात् । अमुन्हश्यमानन्तेजः पुनमित्यबोधि नारदोऽयम् नारद इति अमुन्तेजः पुञ्जमबोधीति कथनेनाऽविरोधात् । नच उस्कटधावनानुकूलव्यापाराश्रयो मृगस्तं पश्येत्त्यर्थापत्तौ मृग-. स्यैव कर्मतासम्बन्धेन न्यायानुयायिमते प्रधानत्वेन च प्रातिपदिकत्वेन द्वितीयापत्तिः अन्यथा पचन्तञ्चैत्रम्पश्येत्यादावपि पाकानुकूलकृतिविशिष्टस्य चैत्रस्य कर्मतया द्वितीयानापचेरिति वाच्यम् ?
शक्तिग्रहम्न्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतस्सिद्धपदस्थ वृद्धाः॥ लोकेऽथंबोधनाय वाक्यप्रयोगः येन तात्पर्येण यद्वाक्यम्प्रयोज्यन्तदेवार्थम्बोधयति ।।
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च षड्भिस्तात्पर्यनिर्णयः ॥ उत्कटधावनदर्शनतात्पर्येणैव वाक्यप्रयोगः । शृणु देवदत्तो गायतीत्यस्य गानकमश्रवणतात्पर्येण प्रयोगः। विचित्रन्धावनम् विचित्रङ्गानमिति धावनम्पश्य गानं शृणु इति तात्पर्यवर्णनेन तत्र कर्मत्त्वाऽप्रवृतेः । नच
पश्य लक्ष्मणपम्पायां वकः परमधार्मिकः। .
शनैश्चनैः पदन्धत्ते मीनादे शशङ्कया ॥ इत्यादौ प्रथमान्तबकस्यैव दर्शन क्रियायामन्वयस्तस्य प्रातिपदिकत्वेऽपि न द्वितीया, तथैव पश्य मृगो धावतीत्यादावपि न द्वितीयेति वाच्यम् १ बकोऽस्ति तम्पश्येति अद्धयाहृतक्रियया तत्र द्वितीयाया अप्रबृत्तः । अत एव विग्देवदत्त त्यादौ सम्बोधनविषये अस्त्यादिक्रियाद्धयाहारेण सम्बोधनं क्रियायां विशेषणम् ।
सम्बोधनपदं यच्च तक्रियायां विशेषणम् ।
ब्रजानि देवदत्त ति निधातोऽत्र तथा सति ॥ .. अध्याहृतक्रियाया विशेष्यत्वेन तत्रैव देवदत्तपदार्थस्यान्वयेन द्वितीयाया अप्रवृत्त: । एवमेव
अस्वा ममैतन्माहात्म्यन्तथा चोत्पत्तयश्शुभाः। इत्यत्रार्षत्वान्न द्वितीयेति समाधानं विहाय अस्स्याद्यद्धयाहारेणैन द्वितीयाया अप्रवृत्तिवर्णनात् । नच प्रथमान्तार्थस्य विशेष्यत्वाऽभावे नैयायिफविरुद्ध
सुरथो नाम राजाऽभूत्समस्ते क्षितिमण्डले ।
तस्य पालयतस्सम्यक् प्रजाः पुत्रानिवौरसान् ॥ इत्यत्र
तुल्येऽपराधे स्वर्भानुर्भानुमन्तञ्चिरेण यत् ।
हिमाशुमाशु असते तन्म्रदिग्नस्स्फुटम्फलम् ।। इत्यत्र च तच्छन्देन सुरथग्रसनपरामर्शाऽनुपपत्तिरिति बाच्यम् ? “दाणश्च सा