________________
शास्त्रार्थकलोपाकृतः । चेञ्चतुर्थ्यर्थ" इति सूत्रे सापदेन 'समस्तृतीयायुक्तादि"तिसूत्रोपात्ताप्रधानतृतीयापरामर्शन सर्वनाम्नान प्रधानपरामर्शकत्वमपि तु बुद्धिस्थमात्रपरार्शकत्वम्प्रधानाऽप्रधाननियमो नास्ति । तथा च सुरथग्रसनपरामर्श वाधाऽभावेन क्रियामुख्यविशेष्यकबोध हान्यभावात् । नच पश्य मृगो धावतीत्यत्र धावनपदार्थस्य दर्शनक्रियायां सकर्मिकायाम्वैयाकरणमते कथमन्वय इति वाच्यम् ? शान्दबोधे चैकपदार्थेऽपरपदार्थस्येतिनियमेन कर्मत्वस्य संसर्गतया भानात् । नच मृगपदार्थस्य प्रथमान्तार्थस्य संसर्गमयोदया कर्मत्वमाश्रित्यान्वयस्स्यादिति वाच्यम् १ निपातातिरिक्तप्रातिपादिकार्थयोः क्रियानिपातातिरिक्तप्रातिपदिकार्थयोश्च साक्षाद् भेदसम्बन्धेनाऽन्वयोऽव्युत्पन्न इति सिद्धान्तेन विभक्तयर्थाऽभावादन्वयानहत्वात् । अप्रथमासामानाधिकरण्येन तिङो वाधित्वा शबाद्यापत्तेश्च । नच वाऽसरूपोऽस्त्रियामित्यनेन तिवेति वाच्यम् ? लादेशेषु तदभावस्य भाष्ये स्पष्टत्वात् । यो धावति मृगस्तम्पश्येत्यद्धयाहारेणान्वयेऽपि भाष्यसम्मतस्य पदैकवाक्यतयान्वयस्य क्लियापत्तेश्च । नीलविशिष्टघटस्य दयंनकर्मत्वे प्रतिपिपादयिषिते नील घटनानामीत्यादौ द्वितीयानापत्तेश्च । नच तवाऽपि मृगीयधावनस्य विशिष्टस्य दर्शनकर्मत्वे विशेषणस्य मृगस्याऽपि कर्मत्वात्प्रातिपदिकत्वाच्च द्वितीयापत्तिरिति वाच्यम् ? धावनक्रियाविशेषणस्य मृगस्यान्तरङ्गसंस्कारप्रथमाविभक्तिविशिष्टस्य पश्चाद् बहिरङ्गसंस्कारकर्मत्वानहत्वात् । नैयायिकमते तुधावनक्रियानिरूपितविशे यत्वे मगम्य दृशा साक्षाद्विशेषणत्वात् । अन्तरङ्गादपि प्रधानकार्य सर्वतो बलवदिति हेतुमति चे" ति सूत्रभाष्यसम्मतत्वेन बलवत्त्वाद् द्वि. तीया दुर्वारैव। किञ्च चैत्रः पचतीत्यादौ कृतिप्रकारकप्रथमान्तार्थविशेष्यको बोध इति चेन्न ? एकविशेषणवैशिष्टयेन उपस्थिते विशेष्ये तत्सजातीयसम्बन्धेन विशेषणान्तरसम्बन्धस्याऽन्युत्पन्नत्वात् । अस्मादेव नियमात् राजपुरुषो भार्यायाश्चेति न प्रयोगः घटो द्रव्यमित्यर्थे घटो द्रव्यत्वस्येति च न प्रयोग इति समयसूत्रे भाष्ये स्पष्टम् । किञ्च नैयायिकमते पचति व्रजतीत्यादीनां साधुत्वापत्तिः स्वस्वमतव्युत्पत्त्यनुसारेण बोधस्य दुर्वारत्वेऽपि साधुत्वस्य निर्विवादत्वात् । साधुत्वञ्च वैयाकरणमत एव भेद्यभेदकसम्बन्धोपाधिमेदनिवन्धनम्"साधुत्वन्तद्भावेऽपि बोधो नेह निवार्यते" इति हरिः । “ते विभक्त्यन्ताः पदमिति" गौतमसूत्रे न्यायवार्तिककारोऽप्याह द्वयी विभक्तिस्स्वाद्यन्तनाम तिबाद्यन्तमाख्यातमित्यादि दूषणाम् ।
किञ्च प्रथमान्तार्थप्राधान्ये भावप्रत्ययस्थले प्रथमान्तपदाऽभावास्क्रियाविशेष्यक एव बोधस्तथा सर्व त्रैवान्तु व्यवहारः । नच वैयाकरणमते कर्मप्रत्ययस्यले पच्यते तण्डुल इत्यादौ देवदत्तकर्तृकपाकानुकुलविक्लित्त्याश्रयस्तण्डुल इत्यादिबोधे प्रथमान्तार्थस्य प्रधान्यन्तस्मात्सर्वत्रैव स व्यवहार इति वाच्यम्! पूर्वोक्तानेकदोषाणान्दुरित्वात् मीमांसकजैमिनिसूत्रविरोधाच्च । तथाहि "भावार्थाः कर्मशब्दास्तेभ्यः कियाप्रतीयेतेष ह्यर्थों विधीयते" इति सूत्राऽकारः कर्मशब्दा यजेत दद्य त्