________________
व्युत्पत्तिवादः। जुहुयादित्यादयस्ते भावार्थाः प्राधान्येन क्रियार्थाः । कियाप्रधानमाख्यातम् । भाव. प्रधानमाख्यातमित्यभियुक्तोक्तेः । अतस्तेभ्यः क्रिया प्राधान्येन प्रतीयेत हि प्राधान्यादेवषोऽर्थः क्रियारूपःसर्वत्र विधीयते नतु नामार्थः तस्याश्च शीघ्रनाशित्त्वाद् द्वारमपूर्वस्वीकार्यमिति तदर्थः। तस्मान्न भावना प्रत्ययार्थ इत्यपि सिद्ध्यति. भावप्रधानमाख्यातमित्यपि वचनं क्रियाविशेष्यकबोधसञ्चालकञ्च सिद्ध्यतीति । नच प्रत्ययार्थः प्रधानम् प्रकृतिप्रत्ययौ सहार्थम्ब्रूतस्त प्रत्ययार्थः प्रधानमिति नियमोऽत एव पक्ता पाचक इत्यादीनां सिद्धिरौपगव इत्यादीनाञ्च । तथा च प्रत्ययार्थस्य फत प्रकृत्यर्थत्वात् प्रथमान्तार्थविशेष्यकबोध आपतत्येव इति नैयायिकमतम्भावनाप्रत्ययार्थवादिमीमांसकमतश्च सुदृढमेवेति वाच्यम् ? प्रत्ययार्थः प्रधानमिति वचनं यत्र प्रत्ययस्य वाचकता तद्विषयकमेव, कर्तरि शबित्यादौ तद्विषयाद्धातोरित्यर्थेन तिङन्ताद्द्योतकत्वाद्विशेषणत्वमेव भावे इत्यस्य तथाऽन्वयस्यैव युक्तत्त्वात् । अत एव "स्नुक्रमोरनात्मन" इति सूत्रभाष्ये "भावकर्मणोरि"ति सूत्रस्य भावकर्मवृत्ताद्धातोरित्यर्थकथनं कृतम् , तस्य भाष्यस्य भावकर्मविषयाद्धातोरित्यर्थे कैयट आह धातोस्तद्विषयत्वं कादिविशिष्टक्रियावाचकत्वेन । कर्मादीनां स्वप्रकृतिकप्रत्ययवाच्यत्वेन च बोध्यन्तत्र च तिविषयलकारस्थले आद्यम् क्रियाप्रधानमाख्यातमिति स्मृत्यन्तरात् शत्रादिप्रत्ययविषये त्वन्त्यम् । सत्त्वप्रधानानि नामानीति स्मृतेः शबादिविकरणा द्योतका एव सार्वधातुके यगितिसूत्रस्थसार्वधातुकार्याः कादय इति सिद्धान्तमूलकमेव सत्त्वप्रधानानि नामानीति । स्त्रीप्रत्ययपक्षे द्विवचनाद्यनुत्पत्तिराशङ्किता भाष्ये । अत एव भगवान्पाणिनिराह -- "प्रधानप्रत्ययार्थवचनमर्थस्याऽन्यप्रमाणत्वादि"तिसूत्रम् प्रधानम्प्रत्ययार्य इति न कार्यम् अर्यस्य अर्थावबोधकत्वात अन्यप्रमाणत्वात् व्युत्पत्त्यनुसारित्वादिति हि तदर्थः न तु व्यभिचरितत्वादित्यर्थः । अत एव लोकत एव सिद्धेरिति कौमुदी। तथा च क्रियाख्यविशेष्यक एव बोध इति निश्चितम् । किञ्च यद्वान्या क्रिया क्वचित् क्रियान्तरानाकाक्षा स्वयमेव प्रधानन्तदाख्यातमिति भाष्यञ्च प्रमाणम् । किञ्च प्रत्ययार्थकालकारकसंख्यापेक्षया धात्वर्थप्रा. धान्यमद्ध्यवस्यमिति च महाभाष्यम् । किञ्च पञ्चमे न्यायभाष्येऽपि क्रियाकालयोगाऽभिधायि आख्यातधात्वर्थमात्रञ्च कालाऽभिधानविशिष्ट मिति तत्र कालेनाभिधानेन कारकेण विशिष्टन्धात्वर्थमात्रमाख्यातार्थ इति तदर्थः, तस्यैव व्याख्यान क्रियाप्रधानमाख्यातमिति वार्तिककृताऽत्र कृतम् । किञ्च तत्रैव सूत्रे वार्तिककार आह विशेष्यभावस्यकविषयत्वाद् यदि गौशब्दस्य तिष्टतिशब्दस्य चैकमभिधेयम्भवति ततो विशेषणविशेष्यभावाऽपन्न योग!शब्दतिष्ठतिशब्दयोस्सामानाधिकरण्यं युज्यते नान्यथा । एवञ्चानेन प्रमाणेन विस्पष्टं कारकस्य विशेषणत्वम् प्रत्ययार्थत्वम् क्रियाया मुख्यविशेष्यकत्वन्चेति । किञ्च न्यायटीककवात्स्यायन आह पदसमयपरिपालनाय व्याकरणप्रवृत्तिमिति व्याकरणबोध्योऽर्थे ऐश्वरसमयविषय इत्येवम् ।