________________
शास्त्रार्थकलोपरकृतः ।
२६५ पाणिनीयम्महाशास्त्रम्पदसाधुत्वलक्षणम् ।
सर्वोपकारकं ग्राह्यं कृत्स्नन्त्याज्यन्न किञ्चन ॥ हतिपराशरः "ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति''श्रुतिः साधुत्त्वज्ञानविषया सैषा व्याकरणस्मृतिरित्यभियुक्तवाक्यञ्च । शक्तिग्रहम्व्याकरणोपमानेति च। रोदितीव पठतीति वाक्यन्तु न भवति नवै तिङन्तेनोपमानमस्ति इति किन्तु तत्र सम्भावनार्थ इवशब्द इति कैयटः । तिङन्तेन शब्देनोपमानबोधो नास्तीति तद्भाष्यार्थः। उपमेयत्वन्त्वस्स्येव. ब्राह्मणवदधीत इति प्रतीतेः । पचति भवतीति व्याख्या--क्रियायाः कतृ कर्मभावेनान्वयेऽपि तदितरकारकत्वेन क्रियान्तरेऽन्वयो न भवति । क्रियानाधारकारकत्वेनान्वयाद्वा लिङ्गसंख्याऽनन्वयाद्वा असत्वभूतत्त्वम्बोध्यम् । नच भूवादिसूत्रभाष्योक्तपचति भवतीत्यादौ समानवाक्ये तिहद्वयलाभेन तद्व्यावृत्यर्थ "न्तिडङतिह'' इतिसूत्रेऽतिग्रहणस्याऽवश्यकत्वेन तत्प्रत्याख्यानपरभाध्यविरोध इति वाच्यम् ? लौकिकैकवाक्यत्त्वसत्त्वेऽपि एकतिङ् वाक्यमिति पारिभाषिकस्यासत्त्वमितिभाष्याशयात् । लौकिकैकवाक्यत्वञ्च "सुसिङन्तचयो वाक्यं क्रिया "वा कारकान्विते"स्यमरोक्तमेव । ___ कचिद् भावे लकारेऽपि बहुत्वसंख्याप्रतीत्या बहुवचनम् "हतशायिकाश्शय्यन्ते" इति यादृशानि हतानां शयनानि तादृशानि शयनानीत्यर्थः । तथा च क्रियाप्रधानता
युक्ततरैव ।
काले युक्ताऽभिसरणे मुह्यन्ति मृगमोहिकाः ।
उष्ट्रासिकास्समास्यन्ते शय्यन्ते हतशायिकाः ॥ इतिभाष्यकारप्रयोगः।
(अथ धात्वविचारः) फलव्यापारयोतुिराश्रये तु तिङस्स्मृताः ।
फले प्रधानन्यापारस्तिब्यस्तु विशेषणम् ॥ १ ॥ फलव्यापारोभयवाचकत्वन्धातुत्त्वमित्याशयः। फलव्यापारोभयवाचकत्वं सकर्मकत्त्वम् केवलन्यापारमात्रवाचकत्वमकर्मकत्वम् । ननु व्यापार एव धात्वर्थोऽस्तु घटः कर्मत्वम् आनयनम् कृतिरिति वाक्याच्छाब्दबोधवारणाय घटकरोतीतिवतू घटं यतते इतिप्रयोगावारणाय च घटनिष्टकर्मतादिरूपकमानयनमित्त्याकारकशाब्दबुद्धित्वावच्छिमव्यापारविषयकशाब्दबुद्धित्त्वावच्छिन्नम्प्रति द्वितीयान्तग्रामादिषदसमभिव्याहृतति: डन्तगच्छत्त्यादिपदसमभिव्याहारः कारणम् । अत एव पाको गमनमित्यनयोगम्धात्वर्थस्य पाके पचधात्वर्थस्य गमने न व्यभिचारः । तत्तदर्थबोधे तत्तद्धातुसमभिव्याहारः कारणम् । विशेषविषयकशान्दबुद्धित्वावच्छिन्नम्प्रति धातुविशेषजन्यव्यापारोपस्थितिः कारणम् । ग्रामन्त्यनतीत्यत्र ग्रामकर्मकत्यागरूपफलविषयकशाब्दबुद्धित्वावच्छिन्न- म्प्रति त्यधातुजन्यस्पन्दनरूपव्यापारोपस्थितिःकारणम् । ग्रामकर्मकसंयोगरूपफ