________________
1
व्युत्पत्तिबादः
लविषयकशाब्दबोधम्प्रति गम्धातुजन्यस्पन्दरूपव्यापारोपस्थितिः कारणम् । अत एक ग्रामं गच्छतीतिवत् ग्रामं स्पन्दते इति न प्रयोगः । नच फरव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम् फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वमिति सकर्मकाकर्मकव्यवस्थाऽनुपपत्तिरिति फलावच्छिन्नव्यापारे धातोश्शक्तिरिति वाच्यम् १ तत्तद्वाक्यार्थविषयक शाब्दबोधे चिकीर्षिते द्वितीयान्तपदनन्यार्थविशिष्टव्यापारवाचकत्वं सकर्मकत्वम् केवलव्यापारमात्र वाचकत्वमकर्मकत्वमिति लक्षणात् । अत एव कर्मसंज्ञकार्थान्वय्य्यर्थकत्वं सकर्मकत्वम् तदनन्वय्यर्थकत्वमकर्मकत्वमत एव "अधिशीङ्ख्थासामैं "त्येन कर्मत्वादकर्मत्वेऽपि अध्यास्यते भूमिरिति वाक्ये कर्मणि प्रत्ययः ।
यन्तु
२६६
यद्वातुसभिव्याहृतफलव्यापारो मयप्रतीतिविषयत्वं सकर्मकत्वन्तद्भिनत्वमकर्मकत्वमिति तन्न १ कर्मप्रयोगे सकर्मकत्वज्ञानं सकर्मकत्वज्ञाने कर्मप्रयोग इत्यन्योन्याश्रयापत्तेः । नच पूर्वकल्पे फलविषयकचोघे द्वितीयाजन्योपस्थितिर्हेतुः व्यापारविषयक - शाब्दबोधे धातुजन्योपस्थितिर्हेतुरिति अकर्मकधातुसमभिव्याहारे व्यापारविषयकशाब्दबोधम्प्रति धातुजन्यव्यापारोपस्थितिर्हेतुरिति कार्यकारणभावद्वयम् । फलव्यापारोभयार्थकधातौ तु जन्यफलब्यापारोभयपस्थितिर्हेतुरिति एक एव कार्यकारणभाव इति लाघवमिति बाध्यम् ? सम्भवति लषौ धर्मे गुरौ नावच्छेदकत्वमिति सिद्धान्तेन फलावच्छिन्नव्यापारत्वस्य शक्यतावच्छेदकत्वे गौरवात् विनिगमनावैकल्येन फलप्रकारतानिरूपितव्यापारविशेष्यताशालित्वेन व्यापारविशेष्यतानिरूपितफलप्रकारताचा लित्रेन हेतुत्वस्वीकारे काय्र्यकारणभावद्वयगौरवाच्च । नच तद्वत्ताबुद्धिम्प्रति तदभाववत्तानिश्वयस्य तदभावव्याप्यवत्ता निश्चयस्य च प्रतिबन्धकत्वम्, विभिन्न विषयकानुमितित्वावच्छिन्नम्प्रति शाब्दसामग्रयाः प्रतिबन्धकत्वमिति च नियमः । तथा च प्रतिबध्यप्रतिबन्धकभावेऽपि विनिगमनाविरहेण प्रतिबध्यतानिरूपित प्रतिबन्धकता प्रतिबन्धकतानिरूपित प्रतिबध्यतेति पूर्वम्प्रतिबध्यों घर्त्तव्यः प्रतिबन्धको वा इति । तथा च द्वितीयाजन्यधातुजन्येतिकार्यकारणभावेऽनेकानेक कार्यकारणभावापत्तिः । फलावच्छि न्नव्यापारघात्वर्थे तु एक एव प्रतिबध्यः प्रतिबन्धको वा, एवम्पूर्वोक्त नियमद्वयेऽपि एक एव । तथा च न केवलव्यापारमात्रन्धात्वर्थः किन्तु वैयाकरणाऽभिमतफलव्यापारयोर्द्धातुरित्येवेऽति वाच्यम् १
ग्राममध्यास्ते ग्राममधिशेते ग्रामं संयुनक्तीत्यादौ द्वितीयाया आधेयत्वार्थकत्वेन केवलफलमात्रार्थकत्वेनामीष्टाऽसिद्ध्या सर्वमते गौरवप्रवर्त्तकस्य द्वितीयार्थस्य नान्तरीयकत्वात् । लाघवगौरवानुसन्धान परित्यागेऽपि व्यापारमात्रस्य धात्वर्थत्वे पच्यते तण्डुलस्स्वयमेवेत्यादौ कर्मवद्भावानापत्तिः । नच धात्वर्थव्यापारजन्यफलाश्रयत्त्वमेव कर्मवद्भावविषय इति वाच्यम् १ यत्यते घटस्स्वयमेवेत्त्यस्यापतेः, र्थजन्ययत्नजन्योत्पत्तिरूपफलस्य घटे सत्त्वात् । अन्यथा क्रियते घटस्स्वयमेवेत्त्यस्याडनापत्तेः ।
धात्व