________________
शास्त्रार्थकलोपस्कृता यावत्सिद्धमसिद्धं वा साध्यत्त्वेनाऽभिधीयते । आश्रितक्रमरूपत्त्वात्सा क्रियेत्यभिधीयते ।। असत्त्वभूती भावश्च तिड्पदैरभिधीयते । व्यापाराणामग्नीन्धनसंयोगत्वतण्डुलप्रक्षालनत्वचुहल्युपरिधारणत्वतण्डुलस्थालीजलसंयोगत्त्वानामानन्न्येऽपि बुद्धिविशेषविषयत्वोपलक्षितवक्तृजिज्ञासितधर्मावच्छिन्ने शक्तेन तदादिन्यायेन बुद्धिविशेषत्वमेव शक्यतावच्छेदकमिति न तत्तन्नामोच्चारणेन गौरवम् । किंच फलस्य द्वितीयार्थत्वे ग्रामङ्गच्छतीत्यादौ संयोगादिरूपफलस्य द्वितीयार्थत्वे तस्य जनकत्वसम्बन्धेन धात्वर्थव्यापारेऽन्यः। ग्रामवृत्तिसयोगजनकव्यापारवानिति बोध एवम्प्रकारेण भूमिङ्ग छति न महीकहमित्यादौ महीमहवृत्तिसंयोगस्य जनकत्वसम्बन्धेन गमनव्यापारेऽभावो वक्तव्य इत्यत्र जनकत्वसम्बन्धावच्छिनप्रतियोगिताको महीकहवृत्तिसयोगस्याऽभावो नर्थो वक्तव्यस्सच जनकत्वसम्बन्धावच्छिन्नप्रतियोगिताकोऽभावोऽप्रसिद्ध एव ? वृत्त्यनियामकस्य जनकत्वसम्बन्धस्याऽभावप्रतियोगितानवच्छेदकत्त्वात् वृत्तिनियामकस्यैव सम्बन्धस्याभावप्रतियोगितावच्छेदकत्वात् अप्रसिद्धस्य च बोधो न सम्भवतीति । किंच द्रव्यङ्गच्छति न गुणमि. त्यादौ दोषः गुणमिति द्वितीयार्थस्संयोगरूप एव फलम् प्राप्त इति जनकत्वसम्बन्धा. वच्छिन्नप्रतियोगिताको यो गुणवृत्तिसंयोगस्याऽभावस्तदद्यापारवांश्चैत्र इत्येव शान्दवोधो वक्तव्यस्सच न सम्भवति ? गुणे संयोगरूपगुणस्य वाधात् । गुणवृत्तिसंयोगरूपफलाऽभावस्य नार्थत्वाऽसम्भवेनान्वयवोधाऽसम्भवात् । किंच द्रव्यङ्गच्छति नाभावमि. त्यादौ च दोषः समवायसम्वन्धावच्छिन्नाऽधेयतैव द्वितीयार्थः यथा ग्रामङ्गच्छतीत्यत्र. संयोगस्य समवायेन ग्रामवृत्तित्त्वात्ताहशसंयोगे ग्रामनिरूपिताऽऽधेयताऽप्यस्ति ग्रामानुयोगिफसमवायोऽप्यस्येवेति संयोगरूपफलनिष्ठाऽधेयता सम्बन्धावच्छिन्नास्तीति यदि समवायातिरिक्तकालिकादिसम्बन्धावच्छिन्नाऽप्याधेयता द्वितीयार्थस्स्यात्तदा ग्रामन्न्यजत्यपि चैत्रे ग्रामत्यागकाले समवायेन चैत्रसंयोगस्य ग्रामाऽवृत्तित्वेऽपि कालिकसम्बन्धेन ग्रामे सम्भवादेव तादृशकालिकसभ्बन्धावच्छिन्नग्रामवृत्तिसंयोगमादाय ग्राम-.. गच्छति चैत्र इति प्रयोगापत्तिरूपोऽतिप्रसङ्गस्यादेव । तन्निवारणार्थ समवायसम्बन्धावच्छिन्नाऽऽधेयता द्वितीयार्थ इति वक्तव्यम् । तथा च ग्रामत्यागकाले समवायेन चैत्रसंयोगस्य ग्रामेऽसम्भवात् कालिकसम्बन्धावच्छिन्नग्रामवृत्तिसंयोगवृत्त्याऽऽधेयतायाः कालिकसम्बन्धावच्छिन्नत्वेन समवायसम्बन्धावच्छिन्नत्त्वात् । समवायानवच्छिन्नाऽऽधेयताया द्वितीयार्थत्वाऽभावाच्च ग्रामं गच्छतीति प्रयोगाऽपत्तिन्नास्त्येव । एवं स्थिते द्रव्यङ्गच्छति नामावमित्यत्राप्यभावपदोत्तरद्वितीयार्थस्स्समवायसम्बन्धावच्छिन्नाऽऽधेयतेति वक्तव्यम् । तत्र यदि कोऽपि पदार्थोऽभावे समवायसम्बन्धेन स्यात्तदा तस्मिन्नभावानुयोगिकसमवायस्य सत्त्वेन तन्निष्ठा साऽभावनिरूपिताऽऽधेयता समवायसम्बन्धावच्छिन्ना स्यादिति, नचैवमस्ति १ अभावे कस्याऽपि समवायेन वृत्तित्वाऽ..