________________
व्युत्पत्तिवादः ।
नाशे बोत्पत्तेः प्रयोजकत्व मुद्दे श्यतावच्छेदकविधेयभाव महिम्ना नियमतो भासते । अतः पाकस्य तण्डुलाद्यारम्भकसंयोगनाशजनकत्वेऽपि तन्नाशस्य द्रव्यान्तरोत्पत्तौ द्रव्यनाशेनान्यथासिद्धतया समभिव्याहारस्थले संयोगं पचतीति प्रयोगवारणाय संयोगनाशकद्वारा नाशकत्वमेव द्वितीयार्थो वक्तव्य इति कृतं प्रयोज्यप्रयोजकभावबोधेन ।
तण्डुलमोदनं करोति, काष्ठं भस्म करोति, दुग्धं दधि करोतीत्यादावपि प्रकृतिकर्मोत्तरद्वितीयया तन्नाशकत्वं कृतौ प्रत्याय्यते विकृतिकर्मोत्तरद्वितोयया च विषयताविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोध्यते । काशान् कटं करोति कुसुमानि मौक्तिकानि वा स्रजं करोतीत्यादौ काशादिपदोत्तरद्वितीया कृतौ विषयत्ताविशेषमेव बोधयति । का· भावादिति अभाव निरूपितस्य तथाविधाssधेयत्त्वस्य समवायसम्बन्धावच्छिन्नाऽऽधेयवस्याsप्रसिद्धया तदभावबोधाऽसम्भवः । अभावनिरूपितस्य समवायावच्छिन्नाधेयत्त्वस्य नञाऽभावबोधाऽसम्भवः १ अप्रसिद्धप्रतियोगिकाऽभावस्याऽस्वीकारात् । वस्तुतस्तु
-२६८
फलावच्छिन्नो व्यापारो धात्वर्थः व्युत्पत्तिवैचित्र्येण नामार्थधात्त्वर्थयोरपि साक्षादन्वयबोधलाघवाऽभावस्तु न ? द्वितीयाशक्तिधातुशक्तिकल्पनापेक्षया धातुजन्यविशिष्टविषयको पस्थितेरेव गरीयस्त्वात् ।
भावनापरपर्थ्यायव्यापारी न प्रत्ययार्थं उक्तयुक्तेः "भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीयेतैष ह्यर्थो विधीयते" इति मीमांसकसूत्रबलेन । फलव्यापारयोर्धातुराश्रये तु तिङस्स्मृताः ।
इतिशाब्दिक प्रकार एव ज्यायान् ।
वृत्यनियामकेति
आश्रयत्त्वसयोगादीनामेव वृत्तिनियामकत्त्वम् तेषामेव प्रतियोगितावच्छेदकत्त्वम् । येन सम्बन्धेन यः पदार्थो यत्र वर्त्तते तेनैव सम्बन्धेन तत्रैव तत्पदार्थस्याऽभावोपि नजा प्रत्याय्यते स्वत्त्वसम्बन्धेन तु न कस्यचित्पदार्थस्य राजादेः पुरुषादौ स्थितिः प्रतीयते । न हि राज्ञः पुरुष इत्युक्ते स्वत्वसम्बन्धेन राज्ञः पुरुषे स्थितिः प्रतीयते येन स्वत्वस्य वृत्तिनियामकत्वं स्यात् । वृत्तिनियामकत्वाभावेन च स्वत्वस्य प्रतियोगिताच्छेदकत्वाऽभाव इति व्याख्यानेनाऽधिकरणताऽनियामकसम्बन्धस्य प्रतियोगितावच्छेदकत्वन्नास्तीति सर्वत्रानुगमः कार्य इत्यलम् ।
इति समासो लः कर्मणि मार्त्तण्डः ।
नियमतो भासत इति—असति बाधके उद्देश्यतावच्छेदकप्रयोज्यत्वस्य विधेये मानमिति नियमो ऽत एव घनवान्सुखीत्यादौ तथा प्रकारस्सङ्गच्छते ।