________________
शास्त्रार्थकलोपस्कृतः ।
२६९ शाधुच्छेदकतायास्तत्र बाधात् । कटामित्यादौ द्वितीयार्थः पूर्ववत् । स्त्र. गादिपदार्थविन्यासविशेषविशिष्टकुसुमादेन कुसुमाधुपादानककृतिविषयता, अपि तु विन्यासादिरूपविशेषणस्यैव, तस्यैव कृत्यधीनोत्पत्तिरिति नजमित्यादिद्वितीयान्तस्य विशिष्टसत्त्वनिर्वाहकत्वमर्थः । विशेषणोत्पादकस्यापि स्वरूपसम्बन्धविशेषरूपं विशिष्टसनिर्वाहकत्वमक्षतमेव ।
अग्निः श्यामं रक्तं करोतीत्यादावचेतनकर्तृव्यापारबोधकतया तत्सम. भिव्याहृतश्यामादिपदोत्तरद्वितीयाया अपि नोपादानताख्यविलक्षणविषयतार्थकत्वसम्भवः, अपि तु तादृशद्वितीयान्तेन श्यामरूपादिविशिष्टासत्वनिर्वाहकतारूपं विशिष्टोच्छेदकत्वं ताशव्यापारे प्रत्याय्यते । घटं रक्त करोतीत्यादावपि घटादिपदस्यारत्तरवविशिष्टघटादिलाक्षणिकतया विशिष्टघटाद्यसत्त्वनिर्वाहकत्वं प्रतोयते । प्रकृतिविकृतिभावस्थले कर्माख्यातेन प्रकृतेः कर्मत्वमेवा प्रत्याय्यते अतः काष्टानि भस्मराशिः क्रियन्त इत्यादावाख्यातार्थविशेष्यकाष्ठादिवाचकपदसमानवचनत्वमाख्यातस्य, न तु निर्वत्थभस्मादिरूपविकारवाचकपदसमानवचनता । अथैवं निर्वयकर्मवाचकपदाप्रथमा न स्याद्, अपि तु द्वितीय व ? तत्कर्मताया लकारेणानभिधानात् ।
यत्त उभयकर्मत्वमेव लकारेणाभिधीयते । प्रधानाप्रधानकर्मसमभिः व्याहृतनोवहादिदुहादिरूपद्विकमकोत्तरकमेप्रत्ययस्येव कर्मद्वयानभिधायकत्व. नियमात । प्रकृते च कर्मद्वयस्यैव तुल्यत्वात् । विकृतेराख्यातार्थविशेष्यत्वेऽपि आख्यातस्य तत्समानवचनत्वानियमः ।। "गृह्णाति वाचकः संख्या प्रकृतेविकृतेन हि"इत्यनुशासनसिद्धप्रकृतिविकृतिसमभिन्याहृतलकारोयधिकारसंख्याबोधकत्वाभावव्युत्पत्तिनिर्वाह्य इत्युक्तस्थले न क्रियापदस्यैकवचनान्तता। तदर्थान्वितसङ्कथाषोधकस्यैवाख्यातस्य तत्पदसमानवचनत्वनियमाद् न तु. तद्विशेषणकस्वार्थकमत्वादिबोध जनकाख्यातमात्रस्येति । तदसत । विकारविकारिणोर्द्वयोराख्यातार्थविशेष्यत्वे वाक्यभेदापत्तः। घटपटौ स्तः, घटपटौ दृश्येते इत्यादौ बिशेष्यभेदेऽपि विशेष्यतावच्छेदकद्वित्वादेरेकधा भानान्न बाक्यभेदः। अत्र च न तादृशं विशेष्यतावच्छेदकभानमस्ति, येन तत्रेवात्राप्येकवाक्यतानिर्वाहः। न चागत्येष्यत एवात्र वाक्यभेद इति वाच्यम् ? तथा सत्येकवाक्यार्थपरस्य काष्ठं क्रियते, इत्येताहशप्रयोगस्यापत्ते। काष्टं भस्म क्रियत इति वाक्य जवोधस्य काष्ठविकृतिभस्मान्यविकृतिवेति संशयनिवर्तकत्वानुपपत्तेः। काष्ठभस्मनोः प्रकृतिविकारभावामानात ।
प्रत्याय्यत इति- रक्तपदोत्तरद्वितीयाविभक्त्या जनकत्वमित्यर्थः ।