________________
२७०
व्युत्पत्तिबादः अस्मन्मते च काष्टोच्छेदकत्वरूपकाष्ठकर्मकत्वमस्मनिवर्तकत्त्वरूपतत्कमकत्वयोरेकविशिष्टेऽपरान्वय एव पूर्वोपदर्शितरीत्या काष्ठोच्छेदप्रयोज्योत्पत्तिकत्वरूपकाष्ठप्रकृतिकत्वस्य भरमनि लाभसम्भवादिति चेत् ? सत्यम् । भस्म नियत इत्यादौ भस्मादिनिर्वय॑कमताया लकारेणाभिधाऽनेपि तत्कर्मताया धात्वर्थसंसर्गतया भानोपगमेन तादृशकर्मोत्तरं प्रथमायाः साधुता ! प्राति. पदिकार्थविशेष्यतया कर्मस्वादिविवक्षायामेव द्वितीयादिविभक्तिसाधुस्वात् । यथार्घ नम इत्यादौ नमःपदार्थत्यागेऽर्धादिकर्मत्ववोधेऽपि अर्धादिपदाप्रथमैव । निपातार्थत्यागे कर्मतासम्बन्धेनैव नामार्थस्यान्वयात् । एवं भूतले न घट इत्यादावपि सम्बन्धस्याभाचे संसर्गतया भानात् षष्ठीविषयेऽपि प्रथमा । नच धात्वर्थे नामार्थस्य साक्षादन्वयोऽव्युत्पन्न इति प्रकृतेः कर्मतायाः संसर्गतया भान न सम्भवतीति वाच्यम् ? घटो नोलो भवति, काष्ठं भस्म भवत्तोत्यादौ भवनादिक्रियायां नोलादेः कर्तृतासम्बन्धेन साक्षादन्वय. वदनापि व्युत्पत्तिवैचियेण कर्मान्तरविशेषगतापन्न क्रियायामपरकर्मणा कमतासम्बन्धेन साक्षादन्वयोपगमात् ।
न चैवमपि कर्मत्वस्य प्रकृत्यविशेष्यत्वेन विवक्षया काष्ठं भस्मरा'शि क्रियेत इत्यादिप्रयोगापत्तिः। कर्मत्वान्तरविशेषणतानापन्नक्रियायामेव द्वितीयया कर्मत्वं वोध्यत इतिव्युत्पत्तिकल्पने गौदुह्यते क्षोरमजा नोयते ग्राममित्यादौ दोहननयनादिक्रियायां क्षीरमामादिकमंत्वानन्वयप्र. सङ्ग इति वाच्यम् ? प्रकृत्तिविकृत्युभयकर्मकस्थले तथा व्युत्पत्तः। यथोकातिप्रसङ्गवारणाय दर्शिता व्युत्पत्तिः कल्प्यते, तथा कर्तृत्वविशेषणतयाऽभासमानायां क्रियायां तृतीयार्थकतृत्वान्वय इत्यपि व्युत्पत्तिः क. ल्प्या । अन्यथा प्रकृत्यर्थविशेष्यतया कतृत्वविवक्षया काष्ठं भस्मना भवतोति प्रयोगस्य दुर्वारत्वात् । व्युत्पत्तिप्रयोजकनाशप्रतियोगिस्वरूपविकार एव काष्ठं भस्म भवतीत्यादौ धात्वर्थः। आधेयत्वरूपं तत्कत करव. मेव सम्बन्धमर्यादया भासते । काष्ठेन भस्मना भूयत इत्यादौ भस्माद्याधे. यत्वमुत्पत्तौ काष्ठाधेयत्वं च नाशप्रतियोगित्वे तृतीयोपस्थाप्यं प्रकारतया भासते । कतत्वविशेषणतया भानस्य निरुक्तभवनस्यान्तर्गततायामे. वोत्पत्ती भस्मादेराधेयत्वसम्बन्धतया भासत इति व्युत्पत्त, काष्ठेन भस्म भूयते इत्यादयो न प्रयोगाः। भावाख्यातस्य कतृत्वाबोधकरवात । कर्मत्वान्तरविशेषणतानापन्नकृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्नमिति काष्ठं भस्मराशिः करोतोत्यादयो न प्रयोगाः ।
तथा व्युत्पत्तिरिति-एबम गोक्षीरयोरनाग्रामयोश्च प्रकृतिविकृतिभावो न भ.