________________
शास्त्रार्थं कलोपस्कृतः ।
अधिशोकस्थासां कर्मेत्यादिना यत्राधारस्य कर्मसंज्ञा तत्राधारत्वमावेयत्वं वा द्वितीयार्थः । स्थलोमधिशेत इत्यादौ तादृशार्थे द्वितीयायाः स्थल्या -अधिशयितेत्यादौ कृत्प्रयोगे षष्ठयाच साधुत्वार्थमेवाधारस्य कर्मसंज्ञाविधानात् । अथ कृनर्थव्यापाररूपक्रियान्तरं धात्वर्थेऽन्तर्भाव्य शयनादिरूपफलावच्छिन्नव्यापारार्थक सोपसर्गशोप्रभृतिधात्वर्थतावच्छेदकशयनादिरूपफलाश्रयतयाधारस्य कर्मत्वोपपादनसम्भवात् तादृशसूत्राणां वैयर्थमेव । अग्याद्युपसृष्टशोम्प्रभृतीनामेव च तादृशार्थे निरूढ लक्षणा, न त्वनुपसृष्टानामतो न म्थलों शेत इत्यादयः स्वारसिकप्रयोगा इति चेन्न ? धातोर्मुख्यार्थपरत्वेऽपि दर्शितप्रयोग निर्वाहाय भगवता पाणिनिमुनिना तादृशसूत्रप्रणयनात् । तदप्रणीतवतां सर्ववर्मप्रभृतीनां मुख्यार्थ - पराणां स्थल्यामधिशेत इत्यादिप्रयोगाणां साधुताया दुर्वारत्वाच | कालाध्वदेशग्नामकर्मक क्रियायोगे केचित्कमे प्रत्ययार्थ विभाषया कर्मत्वमनुशिष्यते । अन्ये तु क्रियान्तरान्तर्भावेणोक्तरीत्या तत्र पाक्षिकं कर्मप्रत्ययमुपपादयन्तस्तन्नानुशासति । उक्तं चैतत् "काला भावाध्वदेश। · नामन्तर्भूतक्रियान्तरैः । सर्वैरकर्मकर्योगे कर्मत्वमुपजायते" इति । तन्मते च मासमधीते मासमास्ते योजनं धावतोत्यादावभिव्याप्त्यर्थे काळाध्वनोरत्यन्तसंयोग इत्यनेन द्वितीयाविधानं यद्यप्यनर्थक, धावर्थेऽध्ययनस्थित्यादिविशेषण व्याभिव्यापनार्थ कक्रियाया अन्तर्भावेण तत्कर्म तया तत्र द्वितीयोपपत्तेः । तादृशधात्वर्थे व्याप्त्यनन्तर्भावे इत्यादौ द्वितीयया तद्बोधनेऽपि आस्यते मास इत्यादौ स्थित्यादिव्यायन्त्रलाभानिर्वाहात्, तथापि मासं रमणोया कोशं कुटिला नदीत्यादौ भवतीत्यस्यानध्याहारे ऽपि द्वितीयायाः साधुतानिर्वाहकत्वेन भाष्यकृतस्तत्सूत्रं सार्थकयन्ति । तत्र हि रमणीयत्वाभिव्याप्यत्वं मासादौ प्रतोयते । न च तत्र क्रियासमभिव्याहारोऽस्ति यत्राभिव्याप्तिरन्तभविष्यति तत्कर्म तया द्वितीया च स्यात् । एवं मासभासितेत्यादावभिव्याप्त्यन्तर्भावेण मासस्य कर्मत्वोपपादने ऽपि कृद्योगात् षष्ठयेव स्याद् न द्वितीयेत्यतो ऽपि तत्सूत्रं सार्थक |
तत्र
मासमास्त
अथ केयमभिव्याप्तिर्याऽत्यन्तसंयोग उच्यते ।
तावव्याप्यवृत्तिः
२७१
वति । अत एव पूर्वोक्तव्युत्पत्तिनं विरुध्यते ।
कम संज्ञा विधानादिसि -
-अन्यथा सप्तमी स्यादितिभावः ।
कालाभ्वभावेति — अत्र कालस्वव्याप्यावान्तरधर्मो दिनादिः । अध्वत्वावान्तरधर्मो हि क्रोधादिः ।