________________
२७२
व्युत्पत्तिवादः कालिकः सम्बन्धः कालिकसम्बन्धस्य व्याप्यवृत्तित्वं व्याप्यकालानव--- च्छिन्नत्वं दिवसादिमात्रवृत्तिमासादिनिष्टसम्बन्धो दिवसाद्यवच्छिन्न इति तत्र मासमास्त इति न प्रयोगः। मासपदार्यश्चात्र त्रिंशद्दिनमात्रस्थायो कश्चिदखण्डः पदार्थः, न तु क्रियापचयस्तथा सति दिनैकादिमात्रस्थायिनोऽपि सम्बन्धस्य कासु चिन् क्रियासु व्याप्यवृत्तितया तत्र तथा ब्यवहारापत्तोरिति युक्तम् । चैत्रो मासं काश्यां तिष्ठतीत्यादौ काशासंयोगस्य मासव्यापकस्यै कस्याभावे ऽपामाण्यप्रसङ्गात् । संयोगव्य. क्तीनां मासनिष्ठकालिकसम्बन्धस्यावान्तरदिनाद्यात्मककालावच्छिन्नत्वात् । न च संयोगार्म भेदेऽपि चैत्रीयसंयोगत्वाद्यवच्छिन्ननिरूपितकालिक. सम्बन्धावच्छिन्नाधारता मासव्यापिककव । सा च नावान्तरकालाव. च्छिन्नेति तत्र तदनवच्छिन्नत्वबोधकमुक्तवाक्यं भवेदेव प्रमाणमिति वाच्यम् ? सामान्यघटितविशेषधर्मावच्छिन्नाधिकरणताकुटादेव सामान्यधर्मावच्छिन्नवत्ताप्रत्ययोपपत्तेः । शुद्धसामान्यधर्मावच्छिन्ननिरूपिताधिकरणतायामतिरिक्तायां मानाभावात् । यत्र त्रिंशदिनेषु कमपि कालमधोते तत्र मासे ऽध्ययनसम्बन्धस्याव्याप्यवृत्तितया मासमधोत इति प्रयोगानुपपत्तिरपि न शक्यते वारयितुम् । उच्यते । अभिव्याप्तिर्यावदवय. वसम्बन्धः । यत्समुदायो भासादिपदार्थस्त एव तदवयवाः । एवं च त्रिदिनानां मासपदार्थतया त्रिशदिनेषु किञ्चित् किञ्चित् कालावच्छेदे. नाध्ययनसम्बन्धेऽपि मासमधोत इति प्रयोगोपपत्तिः । त्रिशदिनसम्बन्धश्च दिनपर्याप्तत्रिंशत्वव्यापकत्वम् । ताहशत्वादेश्च मासादिपप्रवृत्तिनिमिचस्य मासादिपदादेव लाभाद्व्यापकत्वमात्रं द्वितीयार्थः ।
व्यापकत्वं च व्याप्यविशेषाघटितमखण्डं दुर्वचमिति खण्डशो ऽभावप्रतियोगितावच्छेदकत्वमभावश्च द्वितोयार्थः। प्रथमाभावे प्रकृत्यर्थी मासादिराधेयतासम्बन्धेनान्वेति । मासादिनिष्ठाभावप्रतियोगितावच्छे. दकत्वत्वाच्छिन्नस्य च प्रतियोगितग्राऽभावाम्तरेऽन्धयः । तस्य चान्वयितावच्छेदकचैत्रकर्तृकाध्ययनत्वादिरूपस्वाश्रयटितपरम्परासम्बम्धनाध्ययना. दावन्वयः । प्रथमाभावे च प्रतियोगिव्यधिकरणत्वं विशेषणमुपादेयम् । तेन त्रिशदिनेष्वेव च यत्राधीतं तत्र दिनावान्तरदण्डादावध्ययनाभावे. ऽध्यक्तप्रयोगोपतिः । मासपदं च त्रिशदिनपरमेव न तु तावत्काल:
चैत्रो मासं काश्यान्तिष्टतीति--सप्तम्यर्थस्य स्थाधात्वर्थसंयोगेऽन्वयः, मासव्यापककाशीवृत्तिसंयोगवान् चैत्र इति शाब्दबोधः । द्वित्तीयार्थ इति-अनन्यलभ्यो हि शब्दार्थ इति न्यायात् ।