________________
शास्त्रार्थकलोपस्कृतः
२७३ स्थाय्यखण्डवस्त्वन्तरपरम् । एकदिनाध्ययनस्थलेऽपि ताशाखण्डकाले प्रतियोगिळ्यधिकरणाध्ययनाभावसत्त्वेन मासमधीत इति प्रयोगापत्तेः । मासघटकं च दिनं सूर्योदयावधि सूर्योदयान्तरपर्यन्तावस्थाय्यखण्डवस्तु. रूपं, न तु क्रियादिप्रचयः । तथा सत्येकैकक्रियादिव्यक्तरपि मासत्वाधिकरणतया तत्र प्रतियोगियोधकरणाध्ययनाभावसत्त्वेन व्यापकत्वरूपद्वितीयार्थस्य बाधापत्तेः।।
दिवसं स्वपितीत्यादी च दिवसादिपदं सूर्योदयावधिसूर्योदयान्तरपर्यन्तक्षणकूटपरमेव । अतो नैकदण्डादिमात्रस्वप्ने तथा प्रयोगः ।
अथ व्यापकत्वस्य द्वितीयार्थत्व एकमासादिव्यापकाध्ययनस्थलेऽपि मासान्त रेऽध्ययनाभावसत्वेन मासत्वादिव्यापकताया अध्ययने मासमधीत इत्यादिप्रयोगानुपपत्तिः। न च मासपदेन यत्किश्चित्रिशदिनमात्रवृत्तिविशेषधर्मप्रकारेणानुपस्थापनेऽपि तद्धर्मवत्स्वनिरूपिताधेयत्वसम्बन्धन मासपदार्थस्याभावेऽन्वयोपगमात् यत्किश्चिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके लभ्यत इति न काप्यनुपपत्तिरिति वाच्यम् ? तत्तन्मासमात्रवृत्तिधर्मविशेषाणां सम्बन्धघटकत्वेऽपि शाब्दबोधे संसर्ग. तात्पर्यज्ञानस्य हेतुतया संसर्गविशेषोपस्थितेरपेक्षितत्वात् । सम्बन्धषटकताहशधर्मान् विशिष्याविदुषः शाब्दबोधानुदयप्रसङ्गात् । न चेष्टापत्तिः ? अनुभवविरोधात् । अनागतादिमासवृत्तितादृशधर्माणां विशिष्य ज्ञानसामग्रथा असर्वज्ञस्य दुर्लभतयास्मदादीनां सर्वेषामेव तादृशमासत्वव्यापकताबोधोच्छेदप्रसङ्गात् ।
न च तादृशवाक्यार्थतात्पर्यमुक्तझाने च वाक्यार्थघटकः सम्बन्धः संसर्गमर्यादयैव भासत इति विशेषरूपेणानुपस्थितस्यचोक्तधर्मघटितसम्बन्धस्य तात्पर्यज्ञाने बाधाभावबलाच्छाब्दबोधे च तात्पर्यज्ञानबलाद्भानमनपवादमेवेति वाच्यम् ? एकपदार्थविशिष्टापरपदार्थरूपवाक्याथविशेषिततत्प्रतीतीच्छारूपतात्पर्यविषयकनिश्चयस्य प्राग्वाक्यार्थानिश्चये दुर्घटतया तस्य शाब्धीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेविशकलिततत्पदार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्द. धीहेतुताया तपेयत्वात् । तत्र च ताशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादिति चेत् ? सत्यम् , मासादिषटकतादिनादिनिष्ठत्रिंशत्वादिरूपमासक्षणकूटपरमिति-अखण्डकालपरत्वे तु एकदण्डादिमात्रस्वप्नेऽपि दिवसं स्वपितीति अनिष्टाऽपत्तेः । अनुगतरूपेणेति-मासत्वत्वेनेत्यर्थः । मीमांसकानुयायिभिरिति । - नच मीमांसकाभिमतपक्षे मासपदार्थतावच्छेदकत्वं किमिति प्रश्ने त्रिंशत्वत्वेन १८ व्यु