________________
व्युत्पत्तिवादः। स्वादिर्मासादिभेदेन नानैव मासादिपदप्रवृत्तिनिमित्ततापरमनुगतरूपेण । अन्यथा शकथानन्त्यप्रसङ्गात् । सर्वोपसंहारेण व्युत्पत्तिं विना प्रागप्रतीतमासादेः शाब्दानुभवानिर्वाहाच ।।
न च त्रिंशत्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम् ? दिनादेद्रव्यानात्मकत्वेन तत्र गुणरूपसङ्खचाया असम्भवात् । द्रव्यात्मकत्वेऽपि क्रमि. केषु तेषु सङ्खयोत्पत्तेरसम्भवात् , तत्र बुद्ध रनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् । जातिरूपस्य तस्य सङ्करप्रसङ्गनिरस्तत्वात् । तत्तदिनविषयकत्वरूपस्य तत्तदिनाद्यननुगमेनाननुगतत्वादिति वाच्यम् ? तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसम्भवात् । मोमांसकानुयायिभिर. गत्या सङ्घयायाः पदार्थान्तरत्वोपगमाच्च । सङ्खयादिरूपनानादिनादिनिष्ठानुगतत्रिंशस्वादेः सुवचत्वात् । एवं मासमधीते चैत्र इत्यादावधिकरणतैव द्वितीयार्थः।।
मासादिपदार्थतावच्छेदकदिनपर्याप्तत्रिंशत्वादेर्धर्मिविशेषणतापन्नस्य द्वितीया_धिकरणतायां चैत्रकसुकाध्ययनाधारतास्वादिव्याप्यघमावच्छिन्नं स्वरूपसम्बन्धरूपमवच्छेद्यत्वं संसर्गतया भासत इत्युपगमेन सामञ्जस्यात् । यत्किञ्चिदेकमासं व्याप्य यत्राधीतं तत्राध्ययनाधारतानामवच्छेद्यतावच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादिरूपोक्तधमोवच्छिन्नानतिप्रसक्तत्वेन तद्वृत्तित्रिंशत्वेनावच्छेदात् न्यूनकालाध्ययनस्थले च अतिप्रसक्तप्तया तादृशस्य मासस्वस्योक्तरूपावच्छिन्नाधारतानवच्छेदकत्वाच्चाप्रसङ्गातिप्रसङ्गयोरनवकाशात मासादिपदप्रवृशिनिमित्तधर्म चेत्राध्ययनाधारताया व्याप्यत्वस्य शब्दालाभे ऽप्यर्थतस्तल्डाभादिति । द्वितीयाया अत्यन्तसंयोगार्थपरत्वमिति नानुशासनविरोधः। प्रतीयमानं त्रिंशत्त्वन्तञ्चातिप्रसक्तम् , तत्तत्रिंशत्वेन प्रवेशश्चेत्तर्हि अननुगतत्व. मिति वाच्यम् ? सूर्योदयक्षणविशिष्वृत्तित्रिंशत्त्वस्य मासपदार्थतावच्छेदकत्वात् । वैशिष्ठयञ्च स्ववृत्तित्वस्वपूर्वक्षणाऽवृत्तित्वस्वोत्तरसूर्योदयश्चणावृत्तित्व-स्वोत्तरसूर्योदयक्षणाऽव्यवहितपूर्वक्षणावृत्तित्वमिति चतुष्यसम्बन्धेन । _एवं रीत्येव सूर्योदयक्षणविशिष्टत्वन्दिनत्वम्बोध्यम् । इदमेव हि मासपदप्रवृत्तिनिमित्तम् ___ नचैकदिनाद्धययनस्थलेऽपि मासमधीत इति प्रयोगस्स्यात् त्रिंशत्त्वस्यैकदिवसेपि विद्यमानत्वात् इति वाच्यम् १ एकसूर्योदयक्षणविशिष्टवस्तुद्वयाऽवृत्तित्वमेव त्रिश. स्वमेवञ्च न काऽपि क्षतिरितिव्याख्यानात् । वैशिष्ट्यानि पूर्वोक्तान्येवेति परममान्याः । स्वरूपसम्बन्धरूपेति ।
अतिप्रसक्तधर्मस्याऽधेयतावच्छेदकत्वन्न भवत्यपि तु स्वरूपसम्बन्धरूपापच्छेदक