________________
शास्त्रार्थकलोपस्कृतः ।
२७५
त्वस्यैवेति । परन्त्वयमपि पक्षो न श्रेयस्करः ! धूमवान्वहेरित्यादौ वह्नित्वमपि धूमसामानाधिकरण्यावच्छेदकम्भवे देवश्चान्यूनानतिरिक्त वृत्तित्वरूपावच्छेदकत्वप्रवेश इति
अन्थाशयः ।
घटाऽभाववभूतलम् ।
संयोगसम्बन्धावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नभावत्वावच्छिन्न
विशेष्यत्वावच्छिन्नप्रकारतानिरूपितभूतलत्वावच्छिन्न विशेष्यताको बोध इत्येकः प्रकारः ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्न प्रकारतानिरूपिताऽभावत्वावच्छिन्न विशेष्यतासमानाधिकरणा या स्वरूपसम्बन्धावच्छिन्नाऽभावत्वावच्छिन्नाऽभावनिष्ठा प्रकारता सादृशप्रकारतानिरूपिता या भूतलत्वावच्छिन्ना विशेष्यता तादृश विशेष्यता को बोध इति द्वितीयः प्रकारः ।
संयोगसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपित स्वरूपसम्बन्धाच्छिन्नऽभावत्वावच्छिन्न विशेष्यताऽभिन्ना या भावनिष्ठा प्रकारता तादृशप्रकरता निरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्याताको बोध इति तृतीयः स्थूलार्थप्रकारः ।
संयोगसम्बन्धावच्छिन्न समवायसम्बन्धावच्छिन्नघत्वनिष्ठा या निरवच्छिन्नावच्छेदकता तादृशावच्छेदकतानिरूपिता याऽवच्छेद्यता तादृशावच्छेद्यतावती या स्वरूपसम्बन्धावच्छिन्ना घटत्वावच्छिन्ना घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या स्वरूपसम्बन्धावाच्छिन्नाऽभावत्वनिष्ठ निरवच्छिन्नावच्छेदकता निरूपितावच्छेयतावत्स्वरूपसम्बन्धावच्छिनाऽभावनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या स्वरूपसम्बन्धावच्छिन्नाऽभावत्वावच्छिन्नाऽभावनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या समवायसम्बन्धाच्छिन्न भूतलत्वनिष्ठनिश्वच्छिन्नाऽवच्छेदकता निरूपिता म्बन्धावच्छिनाऽवच्छेद्यता तादृशावच्छेद्यतावती या भूतलनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा याऽभेदसम्बन्धावच्छिन्ना भूतलत्वावच्छिना भूतल निष्ठा प्रकारता ताहशप्रकरतानिरूपिता या कर्तृत्वावच्छिन्ना कर्तृनिष्ठा विशेष्यता तादृशविशेष्यतासमानधिकरणा या वृत्तित्वसम्बन्धावच्छिन्ना कर्तृत्वावच्छिन्ना कर्तृनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या सत्ताधाख्य क्रियात्वावच्छिन्ना क्रियानिष्ठा विशेष्यता तादृशविशेष्याताको बोधश्शाब्दिकमते ।
स्वरूपस
तार्किकमते तु सत्तानुकूलकृत्याश्रयम्भूतलमिति बोधस्सम्बन्धास्स्वयमूह्या इति सूक्ष्मार्थः ।
विनिगमनावैकल्येन शाब्दबोधे वैपरीत्यम्, तथाहि, भूतलत्वनिष्ठा या समवायसम्बन्धावच्छिन्ना निरवच्छिन्नाऽवच्छेदकता तादृशावच्छेदकतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृशविशेष्यता निरूपिता या स्वरूपसम्बन्धावच्छिन्नाऽभावत्वावच्छिन्नाभावनिष्ठा प्रकरता तादृशप्रकारतानिरूपिता या अभावनिष्ठा विशेष्यता ताहराविशेष्यतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्नाऽभावनिष्ठा प्रकारता