SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७६ व्युत्पत्तिवादः। न च भूतले घटः भूतलं घटवदितिप्रत्ययबलादतिप्रसक्तोऽपि धर्मः ताशप्रकारत्वावच्छिन्ना तत्समानाधिकरणा तदभिन्ना वा या प्रतियोगिनिष्ठा विशेव्यता तादृशविशेष्यतानिरूपिता या समवायसम्बन्धावच्छिन्ना घटत्वनिष्ठा निरवच्छि. न्नाऽवच्छेदकता ताहशावच्छेदकतानिरूपिता या घटनिष्ठा प्रकारता तादृशप्रकारताकश्शाब्दबोध इति प्रबन्धेन कालक्रियादीनामपि योजना । सर्व वाक्यं सावधारणम्भवति सर्व हि वाक्यजातं क्रियायाम्परिसमाप्यत इतिन्याययोस्सञ्चारात् । घटो नास्ति भतलेऽत्र क्रमवैपरीत्योभयज्ञानम् । तत्र पूर्वम्वपरीत्यम् भतलत्वनिष्ठसमवायसम्बन्धावच्छिन्नप्रकारतानिरूपिता या भूतलनिष्ठा विशेष यता ताहशविशेष्यत्वाऽभिन्ना तादृशविशेष्यतासमानाधिकरणा वा या प्रकारता तादृशप्रकारता. निरूपिता या सप्तम्यर्थवृत्तित्वत्वावच्छिन्नस्वरूपसम्बन्धावच्छिन्नप्रकारता ताहशप्रकारतानिरूपिताऽभावत्वावच्छिन्ना या विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तदभिन्ना तत्समानाधिकरणा वा याऽभावनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना प्रकारता ताहशप्रकारत्वाऽभिन्ना तदवच्छिन्ना तत्समानाधिकरणा वा या प्रतियोगिनिष्ठा विशेष्यता तादृश विशेष्यतानिरूपितसमवायसम्बन्धावच्छिन्ननिरवच्छिन्नघटत्वनिष्ठा या प्रकारता तादृशप्रकारताशालिबोधः । अथ क्रमः, समवायसम्बन्धावच्छिन्नघटत्वनिष्ठनिरवच्छिन्नप्रकारतानिरूपिता या घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा या घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या प्रतियोगित्वसम्बन्धावछिन्ना विशेष्यता तादृश विशेध्यतासमानाधिकरणा तादृश विशेष्यतात्वावच्छिन्ना तदभिन्ना वा या नार्थाऽभावत्वावच्छिन्नाऽ. भावनिष्ठा विशेष्यता तादृशविशेष्यत्वावच्छिन्ना तदभिन्ना वा याऽभावनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या प्रतियोगित्वसम्बन्धावच्छिन्ना विशेष्यता तादृशप्रकारतानिरूपिता या सप्तम्यर्थवृत्तित्वत्वावन्छिन्ना स्वरूपसम्बन्धावच्छिन्ना विशेष्यता तादृशविशेष्यतासमानाधिकरणा ताहशविशेष्यतात्वावच्छिन्ना तादृशविशेष्यस्वाऽभिन्ना वा या प्रकारता तादृशप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता तादृश विशेष्यतानिरूपिता या समवायसम्बन्धावच्छिन्ना भूतलस्वनिष्ठा प्रकारता ताहशप्रकारताशालिशाब्दबोधः। भूतलनिरूपितवृत्तित्ववान् घटः, भूतलनिरूपित्तवृत्तित्वाऽभाववत्सत्ताकर्ता घटः, भूतलनिरूपितवृत्तित्वाऽभाववद् घटकर्तृका सत्ता, भूतलनिरूपितवृत्तित्ववद् घटकर्तृकसत्ताऽभावः, भूतलनिरूपितवृत्तित्ववद्घटकतृकसत्ताप्रतियोगिकाऽभावः । यद्यपि . उद्देश्यपदाथें विशेष्यतासम्बन्धी विधेयपदार्थे प्रकारतासम्बन्ध इतिनियम "इको यणचि” पर्वते वह्निस्सर्वेषु घटेषु रूपमित्यादी विधेयक-- हादी विशेष्यताया एव प्रतीते यं प्रामाणिक इति तत्वम् । आलोकविरोधम्प्रदर्य चिन्तामणिविरोधम्प्रस्तौति नातिप्रसक्तमिति ।
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy