________________
शास्त्रार्थकलोपस्कृतः।
२७७ आधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम् ? ताशप्रत्ययेऽवच्छेदकत्व. भानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरोरे मिश्रादीनां स्वरूपसम्बन्धरूपावच्छेदकत्वनिवेशस्य व्यभिचारिण्यतिव्याप्त्या न ह्यतिप्रसक्तमवच्छेदक. मिति तत्स्थलोर्याचन्तामणिफक्कि काविरोधेन चासम्भवदुक्तिकतापत्तेः।
आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे यद्धत्वधिकरणत्वं साध्याधिकरणतावच्छेदकमिति लल्लक्षणव्याख्यापक्षे स्वरूपसम्बन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यव्याप्स्या दूषयित्वा विरुद्धदिक्कालावच्छिन्नवृत्तिकस्ये. त्यादिदूषणान्तरेण तत्परित्यज्य दोधितिकृतामनतिरिक्तवृत्तिस्वरूपावच्छेदकत्वविवक्षाया असङ्गत्यापत्तेः ।
अन्तु वा ऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिबलादा
अव्यासज्यवृत्तीति-व्यासज्यवृत्तित्वञ्च एकस्वेतरसंख्यावच्छिन्नानुयोगिताकपर्याप्तिप्रतियोगित्वम् । ___दर्शितप्रतोतिबलादिति-भूतले घटःभूतलं घटवदिति प्रतीतिबलादिति तत्त्वम् । घटोऽस्तीतिवाक्यस्य शाब्दबोधः प्रासङ्गिकः ।
घटाऽभिन्नैकत्वविशिष्टकत वृत्तिवर्तमानकालिकी सत्तेति स्थूलार्थः । समवायसम्बन्धावच्छिन्नैक्त्वत्वावच्छिन्नैकत्वनिष्ठप्रकारतानिरूपिता या घटत्वनिष्ठनिरवच्छि. न्नावच्छेदकतानिरूपितावच्छेद्यतावत्स्वरूपसन्बन्धावच्छिन्ना घटनिष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा तादृशविशेष्यतात्वावच्छिन्ना तादृशविशेष्यत्वाऽभिन्ना वा याऽभेदसम्बन्धावच्छिन्ना घटत्वावछिन्ना घटनिष्ठा प्रकारता ताहशप्रकारतानिरूपिता या कर्तृत्वावच्छिन्ना कतृ निष्ठा विशेष्यता तादृशविशेष्यतासमानाधिकरणा तादृशविशेष्यतात्वावच्छिन्ना तादृश विशेष्यत्वाऽभिन्ना वा या वृत्तित्वसम्बन्धावच्छिन्ना कत्तत्वावच्छिन्ना कत्त निष्मा प्रकारता तादृशप्रकारतानिरूपिता परिच्छिन्न- . त्वसम्वन्धावच्छिन्ना वत्तमानकालस्वावच्छिन्ना या वर्तमानकालनिष्ठा प्रकारता ताहशप्रकारतानिरूपिता या सत्तात्वावच्छिन्ना सत्ता निष्ठा विशेष्यता वाशविशेष्यताशालिशाब्दबोध इति शाब्दिकाः। अत्रैव प्रसङ्गे घटवद भूतलम् ।
संयोगसम्बन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नघटत्वावच्छिन्नप्रकारतानिरूपितस्वरूपसम्बन्धावच्छिन्नाधिकरणत्वसम्बन्धावच्छिन्नभूतलत्वावच्छिन्नविशेष्यताशालिशादबोध इत्येकः प्रकारः।
संयोगसम्बन्धावच्छिन्नघटत्वनिष्ठनिरवच्छिन्नाऽवच्छेदकतानिरूपिताऽन्छेद्य तावती