________________
२७८
व्युत्पत्तिबादः धाराधेयभावावच्छेदकत्वम् । व्यासज्यवृत्तस्त्वतिप्रसक्तस्य तदवच्छेदकत्व. मप्रसक्तम् । क्षितिजलोभयं गन्धवत् स्नेहगन्धोभयं क्षितावित्याद्यप्रतीतेः । अथ वा द्वितीयाधणे ऽध्ययनाधारत्वे तत्तन्मासादिरूपप्रकृत्यर्थविशेषणतापन्नतत्तन्मासादिव्यक्तीनां व्यापकतासम्बन्धेन पारतन्त्र्येण विशेषणत्वमुपेयते । तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसम्बन्धन स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्वं तादृशधर्मश्च चैत्रोऽधीत इत्यादौ चैत्रीयाध्ययनाधाधारतात्वं विशिष्यव सम्बन्धेऽन्तर्भावनौयम् । मासान्तरनिष्टतादृशाभावप्रतियोगितावच्छेदकस्वस्य ताहशधर्मे सत्त्वेऽपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकताहशधर्म उक्तसम्बन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेद. स्तदाश्रयत्वमक्षतमेवेति यत्किञ्जिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेऽपि तादृशप्रयोगनिर्वाहः । प्रतिमासमधीत इत्यादौ प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्निष्ठाभावप्रतियोगितावच्छेदकस्वसामान्याभावघटितव्यापकताबोधकतया यत्किञ्चिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः ।
अथात्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किश्चिदेकमासादिव्यापकताबोधकत्वउपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यत्र एकपदवेययमिति चेग्न ? तत्र मासाधिककालव्यापकत्वे ऽपि मासव्यापकतयाधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात् । तथा सति तस्य केवलार्थकतया मासमात्रव्यापकतालाभात्तादृश. प्रयोजनोपपः ।
अत एव च यावज्जीवमग्निहोत्रं जुहोतीतिश्रुतिबोधिताग्निहोत्रानु
या समवायसम्बन्धावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपिता घटनिष्ठा विशेष्यता ताहशविशेष्यतासमानाधिकरणा तादृशविशेष्यत्वाऽभिन्ना तादृशविशेष्यतात्वावच्छिन्ना वा या स्वरूपसम्बन्धावच्छिन्ना घटत्वावच्छिन्ना घटनिष्ठा प्रकारता तादृशप्रकारतानिरूपिता या भूतलत्वनिष्ठनिरवच्छिन्नाऽवच्छेदकतानिरूपिताऽवच्छेद्यतावती स्वरूपसम्बन्धावच्छिन्ना भूतलनिष्ठा विशेष्यता अथवा समवायसम्बन्धावच्छिन्नभतलत्वनिष्ठप्रकारतानिरूपिता या भूतलनिष्ठा विशेष्यता - तादृशविशेष्यताशालिबोध इति द्वितीयः प्रकारः।
यावजोवमित्यादीति। मीमांसाद्वितीयाध्यायतृतीयपादचतुविशसूत्रेऽधिकर. णमेतद्विवेचितम् ।