________________
शास्त्रार्थ कलोपस्कृतः ।
२७९.
वादेन सतिलव्रीहिचरुरूपद्रव्यस्य मासैकरूपकालस्य च विधाने वाक्यभेदः स्यादिति तादृशद्रव्यकालो भयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावज्जीव कालान्तर्ग-तमासरूपकालांशेऽप्यनुवादकता सम्भवात्प्राप्ताग्निहोत्रानुवादेन द्रव्यस्यैव विधानमुचितमिति पूर्वपक्षो निरस्तः ।
यावज्जीवमित्यादिश्रुत्या यावज्जीवव्यापकत्वे बोधितेऽर्थतो मासैकव्यापकतालाभेऽपि उपसच्चरुकरणकत्वविशिष्टहोमे तन्मात्र व्यापकताया अलाभेन तस्यापि विधेयतया वाक्यभेदस्य प्राप्ताग्निहोत्रानुवादेन द्रव्य-विधिपक्षे दुर्वारत्वात् ।
विधिपक्षे दुर्वारत्वात् ।
अथ ताश्रुते द्रव्य कालोभयविशिष्टस्य गौणाग्निहोत्रप्रतिपाद्यस्य कर्मान्तरस्य विधायकत्वेऽपि न कथं वाक्यभेदः ? विधेयभेदस्यैताबताव्यपरिहारात् । प्रत्युत धर्मिणो ऽप्यधिकस्य विधानात् । एवं च “प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते वहवो ऽप्येकयस्नत" इत्यपि निर्युक्तिकमिति चेन्न ? यत्र विधेयांशे युगपदनेकधर्माणां विशेषणतया भानं तत्र विधेयविशेषणभेदेऽपि विशिष्टनिष्ठविधेयत्वाभेदेन वाक्यभेदविरहात् । 4 अन्यथा भूतलं नीलघटवदित्यादावपि नीलवद्धटव दित्यादाविच वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः । यद्यपि तत्रोपसच्चरुकरणकहो माधिकरणता त्वेन अधिकारिविशेषकृततादृशहोमाधिकरणसात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृत हो माधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृ कहो माधिकरणतासत्त्वेनाक्षतैव, तत्तत्पुरुषकर्तृकतादृशहोमाधिकरणतावेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यम्, तथापि विभिन्न पुरुषकर्तृकहोम धिकरणताद्वयावृत्ति - तादृशधरुहोमाधि करणतामात्रवृत्तिधमत्वेनानुगतो कृत्य तत्तत्पुरुषकर्तृकतादृशचरुहोमाधिकरणताया छिन्नव्यापकतानां संसर्गविधया विवक्षितस्वान्न दोषः । तादृशाधिकरणताद्वयावृत्तित्वं च स्त्रवृत्तित्वस्वनिरूपकहोमकर्तृनिष्ठ भेदप्रतियोगिक कहो माधिकरणता वृत्तित्वोभयसम्बन्धेनाधिकरणताविशिष्टान्यत्वरूपमनुगतं बोध्यम् । मासमधीत इत्यादावपि चैत्रा
प्रतियोगित्वमिति । अस्मिन्पत्ते निरूपकत्वसम्बन्धेन । अनुयोगित्वपक्षे तु स्वरूपसम्बन्धेनाऽभावेऽन्वयः । प्रतियोगिपदार्थस्य चानुयोगित्वे निरूपकतासम्बन्धेनान्वय इत्यभिमतिः ।